SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४७४ www. kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir अत्र कामुकयोः प्रक्रान्तेन वृत्तान्तेन विशेषेण दातृयाचकवृत्तान्तोप्रस्तुतः सामान्यात्मा समर्थ्यते । यत्तु ' कारणेन कार्यस्य कार्येण वा कारणस्य समर्थनम्' इत्यपि भेदद्वयमर्थान्तरन्यासस्यालंकार सर्वस्वकारो न्यरूपयत्, तन्न । तस्य काव्यलिङ्गविषयत्वात् । अन्यथा ' वपुः प्रादुर्भावात् -' इति सकलालंकारिकसिद्धं काव्यलिङ्गोदाहरणमसंगतं स्यात् । अपरार्धे वाक्यार्थद्वयस्य कारणत्वेनार्थान्तरन्यासोदाहरणतापत्तेः । यदपि विमर्शिनीकार आह— “विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यार्थस्योपपादनापेक्षत्वं तत्रार्थान्तरन्यासः । यत्र पुनः स्वतःसिद्धस्यैव विशदीकरणार्थं तदेकदेशभूतो विशेष उपादीयते तत्रोदाहरणालंकारः । यथा 'निमज्जतीन्दोः किरणेष्विवाङ्कः' इत्यत्र " इति । तदपि न । 'निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥' इति प्राचीनसंमतोदाहरणे सामान्यवाक्यार्थस्यासंदिग्धत्वेनोपपादनानपेक्षत्वात् । नहि दोषेण भ्रमो भवतीत्यर्थे पामरस्याप्यस्ति संशयः, येनोपपादनापेक्षा स्यात् । अस्त्येव तर्कस्थल इवाहार्योऽत्रापि संशय इति चेत्, त्वदुक्तोदाहरणालंकारेऽपि तस्य साम्राज्यात् । तस्मादस्मदुक्तव व्यवस्थानुसर्तव्या । कुवलयानन्दकारस्तु - " यस्मिन्विशेषसामान्यविशेषाः स विकस्वरः', ‘अनन्तरत्नप्रभवस्य -' इत्यादि । 'कर्णारुंतुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दशालिनमिह त्वां मन्महे कोकिलम् | धन्यानि स्थल सौष्ठवेन कतिचिद्वस्तुनि कस्तूरिकां नेपालक्षितिपालभालतिलके पङ्के न शङ्केत कः ॥ ' पूर्वमुपमारीत्या इह त्वर्थान्तरन्यासरीत्या विकस्वरालंकारः" इत्याह । तदपि तुच्छम् । 'उपकारमेव कुरुते' इत्युदाहरणालंकारोक्तास्मदुदाहरणे प्राथमिकविशेषस्याभावाच्वदुक्तो विकस्वरालंकारो न संभवतीति कश्चिद For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy