________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
ब्दाप्रतिपाद्यस्यार्थस्य विवरणं युज्यते । इत्थं च लक्षणाया एवाभ्युपगम्यतया सत्यां च तत्प्रयोजनीभूतताद्रूप्यप्रतिपत्तौ कथमुपमा द्विलुप्ता तत्र प्राचीनरुक्तेति चेत्, अत्रोच्यते-उपमितसमासस्य भेदघटितोपमानसादृश्यविशिष्टोपमेये शक्तेस्तद्धटकीभूतोपमानशब्दस्य भेदघटितसादृश्यविशिष्टे निरूढलक्षणाया वा स्वीकाराददोषः । इयमेव निपातानामिवादीनां द्योतकतानये मुखं चन्द्र इवेत्यादौ वाचकलुप्तायामुपमायां च गतिरनुसरणीया । वाचकलोपस्तूपमानाद्यकरम्बितसादृश्यतद्विशिष्टान्यतरप्रतिपादकशब्दशून्यत्वादुपपादनीयः । यच्च 'विद्वन्मानस-' इत्यत्र दूषणमभिहितं तद्रूपकप्रकरणे परिहरिप्यते । यदप्युक्तं रूपके सदृशलक्षणायाः फलं ताद्रूप्यप्रत्ययो न युज्यते । तत्सदृश इतिशब्दजबोधानन्तरमपि तथा प्रत्ययापत्तेरिति, तन्न । तत्सदृश इत्यत्र लक्षणाया अभावेन ताद्रूप्यप्रत्ययस्यापादानायोगात् । ताद्रूप्यप्रत्ययो लक्षणायाः फलमिति प्राचां समयः । महाभाष्यादिग्रन्थानामस्मिन्नेवानुकूलत्वाच्च । नव्यनये तु तेषामाकुलीभावः स्यादिति दिक् । उक्तदोषे चेत्यर्थः । द्विलुप्तेति । उक्तरीत्या धर्मवाचकयोः सत्त्वेन कथं धर्मवाचकलुप्तोक्तेत्यर्थः । विशिष्टशक्तो गौरवादाह -तद्बटकीति । भेदघटितेति। तथा च साधारणधर्माभानाद्धर्मलुप्तत्वं सुस्थम् । नन्वेवमपि ताद्रप्यप्रतीत्या कथं धर्मलुप्तत्वमत आहनिरूढलक्षणेति। इयमेवेति । उक्तैव गतिरित्यर्थः । धर्मलुप्तोदाहरणमाह-मुखं चन्द्र इवेति । वाचकलुप्तायामिति। तडिगौरीत्यादावित्यर्थः। नन्वेवमपि सादृश्यवाचकस्योपमानशब्दस्यैव सत्त्वात्कथं वाचकलुप्तत्वमत आह-वाचकेति । वाक्ये इवानुपादाने वाचकलुप्तत्वायदश्येति (?) । समसदृशाद्यप्रयोगे तत्त्वायाह—तद्विशिष्टेति । सादृश्याविशिष्टेत्यर्थः । परिहरिष्यत इति । अयं भावः-उपमेयोपमानयोरभेद एव रूपकमिति मते सादृश्यज्ञानमूलकाभेदप्रतीतिविषय एव सः । एवं च 'पौरुषाब्धेस्तरङ्गः । प्रत्यर्थिवंशोल्बणविजयकरिप्रौढदानाम्बुपट्टः खगो मालवस्य' इत्यादौ खड्गशब्दात्प्रतीयमानदानाम्बुपट्टाभेदे प्राथषु वंशाभेदप्रतीतिमूलकतज्जातिसंबन्धित्वरूपं साधर्म्य म. लम् । प्रत्यर्थिषु वंशाभेदे च खड़े दानाम्बुपट्टाभेदप्रतीतिमूलकतद्भज्यमानत्वम् । तस्मादवश्यं रूपके लक्षणा। तथेति । ताद्र प्येत्यर्थः । रूपके लक्षणा । अत्र युक्तयन्तरमाहमहाभाष्यादीति । तथा च 'पुंयोगादाख्यायाम्' इति सूत्रे भाष्यम् --- भिनानामभेदाभावात् । 'कथं पुनरतस्मिन् स इत्येतद्भवति' । चतुर्भिः प्रकारैस्ताद्रूप्यमारोप्यते, न तु मुख्यम्।तात्स्थ्यातू, ताद्धातू, तत्सामीप्यातू, तत्साहचर्यात्, इति । तात्स्थ्याद्यथा
For Private And Personal Use Only