SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रमगङ्गाधरः । २८१ इति चित्रमीमांसागतं तन्निर्मितमपि लक्षणमिह तथैव । तस्मात् 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र दृढारोपं रूपकमेव भवितुमर्हति, नापद्रुतिः । उपमेयतोपमानतावच्छेदकयोः सामानाधिकरण्यस्य निष्प्रत्यूह भानात् । तदुक्तं विमर्शिन्याम्-"न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते' अत्र विषस्य निषेधपूर्व ब्रह्मखविषये आरोप्यमाणत्वादृढारोपं रूपकमेव, नापद्रुतिः" इति । यदि च प्राचीनमतमुपेक्ष्यालंकाररत्नाकरेणेव मयाप्ययं प्रकारोऽपहुतिमध्ये गणित इत्युच्यते, तदा आहार्यताप्यनिश्चयस्य समानत्वाद्रूपकभेद एवापट्ठतिरित्यप्युच्यताम् । निरस्यतां च प्राचीनमुखदाक्षिण्यम् । एवमपि चित्रमीमांसागतत्वन्निमितापहृतिलक्षणस्यात्राव्याप्तिः स्थितैव । अपि च यदि 'नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम्' इत्यत्र पर्यस्तापगुतिरित्युच्यते, तदा तस्यामेव त्वत्कृतचित्रमीमांसागतस्य ___ 'बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिद्भुते । उपरञ्जकतामेति विषयी रूपकं तदा ॥' इति रूपकलक्षणस्यातिव्याप्तिर्ववलेपायिता स्यात् । विषयिणो निहवेऽपि विषयस्यानिद्रुतत्वात् । अथापि चित्रमीमांसायां प्राचीनमतानुसारेण रूपकलक्षणम्, कुवलयानन्दे च रत्नाकराद्यनुसारेणापहृतित्वोक्तिरिति यथाकथंचित्सामञ्जस्यं विधेयमिति दिक् ।। तथैव न प्रवर्तते । उपसंहरति-तस्मादिति । दृढारोपमारोपदा_संपादकम् । न विषमिति । अत्रेदं चिन्त्यम्--नेदं मुखं चन्द्र इति प्रसिद्धापदुत्युदाहरणेऽपि मुखनिघेधकस्य चन्द्रारोपदा_संपाकत्वस्य वक्तुं शक्यत्वेनानुभवसिद्धत्वेन चापह्नतिमात्रस्योच्छेदापत्ते: । यदि तु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धत्वादलंकारान्तरत्वं ताह प्रकृतेऽपि तुल्यमिति । प्राचीनोति । प्रकाशकारादीत्यर्थः । एपमग्रेऽपि । इति दृष्टान्तोल्लेखेन तदनुरोधेनायं गणित इति सूचितम् । अपह्नुतितत्त्वावच्छिन्नम् । ननु निषेधपूर्वकारोपे चमत्कारविशेषस्यानुभवसिद्धत्वेन कथमपलापः, अतो दोषान्तरमाहएवमपीति । उक्तरीत्या तथाङ्गीकारेऽपि । दोषान्तरमाह-अपि चेति । तस्यामेव पर्यस्तापहृतावेव । रत्नाकरादिति । आदिना दण्डिग्रहणम् । इत्थं हि काव्यादर्श (२।३०४ ) तेनोक्तम् --'अपगुतिरपद्रुत्य किंचिदन्यार्थसूचनम्' इति । यथाकथंचित्सामञ्जस्यमिति । एतदनन्तरमत्र किंचित्पतितम् । तत्सर्वपुस्तके दुर्लभमेव । अ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy