________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९२
काव्यमाला। अयमेवाभङ्गात्मको यथा'करकलितचक्रघटनो नित्यं पीताम्बरस्तमोरातिः ।
निजसेविजाड्यनाशनचतुरो हरिरस्तु भूतये भवताम् ॥' विशेष्ययोरश्लिष्टत्वे यथा 'जाड्यहरणो विष्णुः सूर्यश्च वः पातु' इति तस्यैव शेषे कृते । अर्थश्लेषो यथा
'अर्जुनस्य गुरुमायामनुजः परमः पुमान् ।
गुञ्जापुञ्जधरः पायादपायादिह कोऽपि वः ॥' एवमेते त्रयोऽपि प्रकृतविषया एव भेदाः । 'हरिकरसङ्गादधिकं रमणीयाप्यतुलरागसंवलिता ।
सुन्दरि तवाननाग्रे कमलामा विगलितप्रतिभा ॥' अयमप्रकृतमात्रविषयः । प्रकृतस्याननस्य श्लेषाविषयत्वात् । कमलाभेति विशेप्यांशे अधिकमिति विशेषणांशे च सभङ्गः, अन्यत्राभङ्गः । __ अप्रकृतयोर्विशेष्ययोरश्लिष्टत्वे यथात्रैव 'कमलायाः कमलस्य च शोभा गलिता तवाननस्याने' इत्युत्तरार्धनिर्माणे । प्रकृताप्रकृतोभयविषयो यथा'अलं हि मानी परिदीर्णगात्रः समापितः फाल्गुनसंगमेन । अत्यन्तमाकाङ्कितकृष्णवर्मा भीष्मो महात्माजनि माघतुल्यः ॥'
करकलितेत्यादि । करो हस्तः किरणाश्च । चक्र सुदर्शनं कालचक्रं च । अम्बरमाकाशो वस्त्रं च । तमो राहुरन्धकारश्च । जाड्यमज्ञानं मूर्खत्वं च । हरिः सूर्यो विष्णु. श्च । अयं प्रकृताप्रकृतोभयाश्रितः । जाड्येति । निजसेवीत्यस्येत्यादिः । समर्थ इत्यग्रे शेषो बोध्यः । शुद्धश्लेषं तृतीयमुदाहरति-अथेति । अर्जुनस्य गुरुरित्यत्र च गुरुपदं श्लिष्टं पर्यायपरिवृत्तिसहं च । शिक्षकादिपदोपादानस्यापि संभवादिति बोध्यम् । एवं च गुरुरुपदेष्टा बृहस्पतिश्च । उपसंहरति-एवमिति । अप्रकृतविषयमुदाहरति-हरीति । हरिविष्णः सूर्यश्च । करो हस्त: किरणश्च । अधिकमतिशयेन । के इत्यधि. कम् । अव्ययीभावः । जले इत्यर्थश्च । सङ्गादिति । पञ्चम्यन्तमतुलरागेत्यत्राप्यन्वे. ति । कमलामा कमलकान्तिर्लक्ष्मीकान्तिश्च । विगलितप्रतिभा निःसारा । अन्यत्र हरिकरादौ । अत्रैव उक्तपद्य एव । अलमिति । अलमत्यन्तम् । होति निश्चयेन ।
For Private And Personal Use Only