________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
३९३
अत्र
प्रकृताप्रकृतयोर्भीष्ममावयोरश्लिष्टत्वाद्विशेषणानां च श्लिष्टत्वाद्भवति तृतीयो भेदः । परं तूपमया संकीर्णः । यदि च 'माघो महात्मा - जनि हन्त भीष्मः' इत्यप्रकृतांशमपि षग्रस्तं कृत्वा रूपकं क्रियते, तथापि प्रकृतविशेष्यस्य माघस्याश्लिष्टत्वादखण्डित एव श्लेषः । न चात्र समासोक्तिरिति भ्रमितव्यम् । अप्रकृतधर्मिणोऽपि शब्दवाच्यत्वात् । यत्र त्वप्रकृतव्यवहार एव शब्दशक्ति सहेतापि, न त्वप्रकृतधर्मी तत्र समासोक्तेरिष्टेः ।
अत्र विचार्यते - अयं चालंकारः प्रायेणालंकारान्तरस्य विषयमभिनिविशते तत्र किमस्य बाधकत्वं स्यादाहोस्वित्संकीर्णत्वमुताहो बाध्यत्वमिति । अत्राहुरुद्भटाचार्याः - "येन नाप्राप्ते य आरभ्यते स तस्य वाधकः' इति न्यायेनालंकारान्तरविषय एवायमारभ्यमाणोऽलंकारान्तरं बाधते । न चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाशो नान्यं बाधेत । तथाहि अप्रकृतमात्रयोः प्रकृतमात्रयोर्वा तावत्तुल्ययोगितैव जागर्ति । प्रकृताप्रकृतयोस्तु दीपकम् । तदनुमोदिता उपमादयश्व । न च 'देव त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्रमिरेको लोकत्रयात्मकः ॥'
मानी अभिमानी । अत्यन्तं हिमसंहत्या परिदीर्णानि गात्राणि येन स च । फाल्गुनोऽर्जुनो मासश्च । अत्यन्तमाकाङ्क्षितः कृष्णस्य मार्गो येन । अत्यन्तमाकाङ्क्षितः कृष्णवमग्निस्मिन्स च । भीष्मो गाङ्गेयः । माघो मासः । संकीर्ण इति । तुल्यपदोक्तेरिति भावः । पूर्व भीष्मस्योद्देश्यत्वं तत्तुल्यत्वस्य विधेयत्वम्, अधुना तद्वैपरीत्येनाह - य. दीति । श्लेषेति । गाङ्गेयवद्भयानकस्यापि प्रतीतेरिति भावः । अखण्डित एव श्लेष इति । शब्दशक्तिमूलध्वनिना न खण्डित इत्यर्थः । क्व तहि समासोक्तिरत आह-यत्रेति । अपिः संभावनायाम् । अत्र श्लेषविषये । अत एवाह - अयं चेति । श्लेष इत्यर्थः । विविक्तविषयस्यापि वक्ष्यमाणत्वादाह - प्रायेणेति । अभीति । व्यामोतीत्यर्थः । उताहो अथवा । येनेति । प्राप्त इति भावे क्तः । येनेति कर्तरि तृतीया । नद्वयस्य प्रकृतदार्व्यबोधकत्वम् । तथा च यत्कर्तृकस्य प्राप्ती यत्रारभ्यमाणः स तस्य बाधक इत्यर्थः । तदप्राप्तियोग्येऽचारितार्थ्यं हि बाधकतावीजम् । एवव्यवच्छेयं स्पटार्थमाह- - न चेति । नहीत्यर्थः । तावदादौ । अलमत्यन्तम् । पाता रक्षिता पाताललोकश्च | आशानां मनोरथानां दिशां च । अमराणां देवानां मरुद्गणानां च भूमिः
५०
For Private And Personal Use Only