SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । ४९३ 'स्मरदीपदीप्तदृष्टेघनान्धकारेऽपि पतिगृहं यान्त्याः । झगिति प्रादुरभूवन्सख्यादिव चञ्चलाः परितः ॥' इहाकस्मिके निष्प्रत्यूहपतिगृहयानस्य कारणान्तरसमवधाने हेतोरुत्प्रेक्षणादुत्प्रेक्षालीढः । पूर्वस्तु शुद्धः । 'नवप्रसङ्गं दयितस्य लोभादङ्गीकरोति स्म यदा नताङ्गी । श्लथं तदालिङ्गनमप्यकस्माद्धनो निनादैर्घनतां निनाय ।' अत्र घनध्वनिभिरालिङ्गनस्य साङ्गता सिद्धिः । पूर्वपद्यद्वये त्वनायासेन कार्यसिद्धिः । 'कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः । अयमपि बत गुञ्जत्यालि माकन्दमौलौ मनसिजमाहमानं मन्यमानो मिलिन्दः ॥' अत्र जीवितनाशं प्रति वातवानचञ्जरीकगुञ्जितयोरहमहमिकया हेतुत्वादेकस्याकस्मिकत्वाभावान्न प्रकृतालंकारस्य विषयः । किं तु कर्तृरूपभिन्नधर्मिकेण वानगुञ्जनक्रिययोः समुच्चयेन जीवितनाशरूपैककार्यात्मकैकर्मिकस्तयोरेव कारणयोः समुच्चयः संकीर्णः। इति रसगङ्गाधरे समाधिप्रकरणम् । अथ प्रत्यनीकम्प्रतिपक्षसंबन्धिनस्तिरस्कृतिः प्रसनीकम् ।। अनीकेन सदृशं प्रत्यनीकम् । सादृश्यस्य यथार्थत्वेनैव संग्रहे पुनः सादृश्यग्रहणाद्गणीभूतेऽपि सादृश्येऽव्ययीभावः । लोके प्रतिपक्षस्य तिरस्कारायानीकं प्रयुज्यते । तदशक्तौ प्रतिपक्षसंबन्धिनः कस्यचित्तिरस्कारः क्रियते । स चानीकसदृशतया प्रयुज्यमानत्वात्प्रत्यनीकमुच्यते । प्राग्वदाह-अथेति । सुषमा परमा शोभा। चञ्चला विद्युतः । घनो मेघः । घनतां निविडताम् । माकन्दश्चतः ॥ इति रसगङ्गाधरमर्मप्रकाशे समाधिप्रकरणम् ॥ प्राग्वदाह-अथेति । अनीकं सैन्यं व्यूहरचनाकारम् । संबन्धी प्रतिपक्षेत्यादिः । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy