SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ काव्यमाला। 'न्यञ्चति वयसि प्रथमे समुदश्चति किं च तरुणिमनि मुदृशः । उल्लसति कापि शोभा वचसां च दृशां च विभ्रमाणां च ॥ अत्र गुणः । यदि च 'विलसन्त्यहमहमिकया वाचो गतयश्च विभ्रमाश्च भृशम्' इत्युत्तरार्धं तदा क्रिया । यदि 'दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम्' इति क्रियते तदा गुणविशिष्टा क्रिया । केवलगुणेन साक्षात्संबन्धाभावात् केवलक्रियायाश्चाहृद्यत्वात् । अप्रकृतानामेव यथा'न्यञ्चति बाल्ये सुदृशः समुदञ्चति गण्डसीनि पाण्डिमनि । मालिन्यमाविरासीद्राकाधिपलवलिकनकानाम् ॥' अत्र गुणः । आविर्भावक्रियायाः साक्षाद्धर्मिभिरनन्वयात् । 'न्यञ्चति राकाधिपतिर्लवली पुरटं च पुण्डरीकं च' इति कृते क्रिया । 'धवलीभवत्यनुदिनं लवली कनकं कलानिधिश्चायम्' इति कृते गुणविशिष्टक्रिया। 'त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् । विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ।' अत्रोभयसाधारणयोर्गुणक्रिययोरभावाच्छब्दमात्रम् । श्लेषमूलेनाभेदाध्यवसानेन पिण्डीकृतोऽर्थो वा। यत्त्वलंकारसर्वस्वछता, तदनुगामिना कुवलयानन्दकृता च 'गुणक्रियाभिः संबद्धत्वे गुणक्रियारूपैकधर्मान्वयः' इति चोक्तं तदापाततः । विद्यमानस्यापि सादृश्यस्यासुन्दरसाधारणधर्मकत्वेनासुन्दरत्वादिति बोध्यम् । सामान्यस्य क्रियान्वयित्वरूपकारकत्वस्य । प्राचां मतेनेदं क्रियोदाहरणमुक्त्वा गुणोदाहरणमाह-न्यञ्चतीति । तिरोभूते सतीत्यर्थः । गुण इति । शाभारूप इत्यर्थः । आदिपदग्राह्योदाहरणमाह-यदीति । ननु केवलस्यैव तत्त्वं कुतो नात आह---केवलेति । कारकाणां मिथः क्रियाद्वारकसंबन्धादाह-साक्षादिति । लवलिः 'हरफारेवडी' । गुणो मालिन्यरूपः । धामभिश्चन्द्रादिभिः । तेषामकारकत्वात् । पुरटं सुवर्णम् । आदिसंग्राह्यान्तरोदाहरणमाह--त्वयीति । पाकेति । इन्द्रतुल्य इत्यर्थः । वर्षन्ति वर्षणं कुर्वन्ति । संवत्सरवदाचरन्तीत्यर्थः । उभयेनेति । नेत्रादिनेत्यर्थः । शब्दमात्रमिति । वर्षन्तीति शब्दमात्रमित्यर्थः । तस्य तदुभयवृत्तित्वाभावादाह-लेषेति । पिण्डीकृत एकीकृतः । यथाक्रममाह-गुणेति । यद्वा जातिक्रियाद्रव्यातिरिक्त For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy