________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
यथा
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
व्यङ्ग्यस्य वाच्यसिद्ध्यङ्गतया गुणीभावस्तथापि नायकादेर्विभावस्य बाप्पादेरनुभावस्य चित्तावेगादेव संचारिणः संयोगादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेत् ॥
यत्र व्यङ्ग्यचमत्कारासमानाधिकरणो वाच्यचमत्कारस्तत्तृतीयम् । यथा यमुनावर्णने 'तनयमैनाकगवेषणलम्बीकृत जलधिजठरप्रविष्टहिम गिरिभुजायमानाया भगवत्या भागीरथ्या सखी' इति । अत्रोत्प्रेक्षा वाच्यैव चमत्कृतिहेतुः । चैत्यपातालतलचुम्बित्वादीनां चमत्कारो लेशतया सन्नप्युत्प्रेक्षाचमत्कृतिजठरनिलीनो नागरिकेतरनायकाकल्पितकाश्मीरद्रवाङ्गरागनिगीर्णो निजाङ्गगौरिमेव प्रतीयते । न तादृशोऽस्ति. कोऽपि वाच्यार्थो यो मनागनामृष्टप्रतीयमान एव स्वतो रमणीयतामा - धातुं प्रभवति । अनयोरेव द्वितीयतृतीयभेदयोजगरूकाजागरूक गुणीभूतव्यङ्गययोः प्रविष्टं निखिलमलंकारप्रधानं काव्यम् ॥ यत्रार्थचमत्कृत्युपस्कृता शब्दचमत्कृतिः प्रधानं तदधमं चतुर्थम् ।
मित्रात्रिपुत्रनेत्राय त्रयीशात्रवशत्रवे । गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नमः ||
१९
For Private And Personal Use Only
नित्वं को निवारयेदिति चिन्त्यम् | अन्यथा 'ग्रामतरुणम्' इत्यादिगुणीभूतव्यङ्गचीयप्रकाशीयुक्तोदाहरणानामप्य संगत्यापत्ती व्याकुली स्यात् । तत्रापि व्यङ्गयसंकेतभङ्गेन वाच्यमुखमालिन्यातिशयरूपानुभावमुखेनैव विप्रलम्भाभास पोषणं न केवलेन संकेतभङ्गेन । तस्याकर्तव्यत्वबुद्ध्यापि संभवादिति बोध्यम् । व्यङ्गयेति । तदसमानाधिकरणत्वं चास्फुटतया बोध्यम् | हिमाचलस्य मैनाकः पुत्रः । लम्बीकृतत्वप्रविष्टत्वे भुजविशेषणे । तद्वदाचरिता | 'उपमानादाचारे' इति क्यङ् । सखी यमुना वाच्यैव । तदर्थे क्यङः सत्त्वात् । अत्र श्वेतपातालतलगामिनी भागीरथी तादृशविशिष्टभुजत्वेनोत्प्रेक्ष्यते । एव व्यावर्त्य व्यङ्गयमाह — श्वैत्येति । व्यङ्गयानामिति शेषः । नागेति । ग्रामीणेत्यर्थः । अत एव सम्यग्लेपनात्स्वाङ्गगौरत्व निगरणम् । काश्मीरद्रवः केसररसः । सन्नपीत्यनेन व्यङ्गयासमानाधिकरणत्वमित्येव कुतो नोक्तमित्यस्य निरासः । तदाह-न तादृश इति । मनागिति । ईषदस्पृष्टव्यङ्गय एवेत्यर्थः । उपस्कृतत्वं पोषितत्वम् । अत एव तस्याः प्राधान्यम् । गोत्रात्र इति सृजन्तस्य चतुर्थ्यन्तम् । शिवाय विष्णवे वा । सूर्याचन्द्रनेत्राय । त्रयी वेदत्रयी तत्र शात्रवं शत्रुत्वं यस्य मदनस्य, येषां वा दैत्यानाम्, तच्छत्रवे । गोत्रारि
1