________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
काव्यमाला।
अत्रार्थान्तरन्यासान्विता ।
केऽपि स्मरन्त्यनुसरन्ति च केचिदन्ये
पश्यन्ति पुण्यपुरुषाः कति च स्टशन्ति । मातर्मुरारिचरणाम्बुजमावि गङ्गे
भाग्याधिकाः कतिपये भवती पिबन्ति ॥' अत्रैकं कर्मक्रियाणां साधारणम् । व्यङ्गयैषा यथा'अये लीलाभनत्रिपुरहरकोदण्डमहिम
कथा यत्रोदञ्चत्यतुलबलधैर्यस्य भवतः । अयं को वा तत्र प्रसृमरफणाकोणनिहित
क्षितिः शेषः श्रीमान्कमठकुलचूडामणिरपि ॥' अत्र को वा इत्यनेन वाच्यलक्ष्यव्यतिरिक्तस्यागणनीयत्वस्य शेषकमठाभ्यामप्रकृताभ्यामन्वयः प्रतीयते ।
इति रसगङ्गाधरे तुल्ययोगिताप्रकरणम् । अथ दीपकम्प्रकृतानामप्रकृतानां चैकसाधारणधर्मान्वयो दीपकम् ।
प्राग्वदेवात्राप्यौपम्यस्य गम्यत्वम् । प्रकृतार्थमुपात्तो धर्मः प्रसङ्गादप्रकृतमपि दीपयति प्रकाशयति सुन्दरीकरोतीति दीपकम् । यद्वा दीप इव दीपकम् । संज्ञायां कन् । दीपसादृश्यं च प्रकृताप्रकृतप्रकाशकत्वेन बोध्यम् । करोति नाशयति । न्यासान्वितेति । कारकतुल्ययोगितेति शेषः । विशेषस्य सामान्येन समर्थनात्तन्मिश्रत्वमिति भावः । अम्बुजमावि कमलमकरन्दरूपे । अये इति । श्रीरामवर्णनमिदम् । अत एव तयोरप्रकृतत्वम् । हे राम, यत्र स्थले तव कथा निःसरति तत्र शेषः कूर्मश्च भूधारकः को वा । न कोऽपीत्यर्थः । इत्यनेनेति । व्यज्यमानस्येति शेषः । अत एव वाच्येति ॥ इति रसगङ्गाधरमर्मप्रकाशे तुल्ययोगिताप्रकरणम् ॥
अथ दीपकं निरूपयति-अथेति । अत्राप्यौपम्यस्येति । परंतु प्रकृतमुपमेयमप्रकृतमुपमानमिति बोध्यम् । योगरूढं दीपकपदमित्याह-प्रकृतेति । प्रकाशनासंभवादाह-सुन्दरीति । नन्वेवमत्राभाव्यमत आह-यद्वेति । 'संज्ञायां कन्' इति
For Private And Personal Use Only