SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । रितयोरभेदबुद्धेरनुत्पादाद्वितीयशक्त्या प्रादुर्भावितं द्वितीयार्थमादायान्वयबोधः, न तु विरुद्धार्थम् । विरोधधी शिथिलमूला निवर्तमानापि कविसंरम्भगोचरतया चमत्कारकारणमिति प्राचां निष्कर्ष: । नव्यास्तु — 'अ ४२९ प्रादुर्भावं विना विरोधाभास एव न संभवति । तत्रैको विरोधस्योछासकः द्वितीयश्रान्वयबोधविषय इति तत्सत्यम् । परं तु अन्वयबोधविषये द्वितीयार्थे विरोधोल्लासकोऽप्यर्थो भेदेऽपि श्लेषभित्तिकाभेदाध्यवसाय इत्युक्तदिशा अभिन्नतया भासते । एवं चाविरुद्धं द्वितीयार्थमादायान्वयबोधे सत्यपि स्वास्पदीभूतस्य विरुद्धार्थस्य निःशेषतया निवृत्तेरभावादर्धमृतः श्वसन्निव विरोधोऽपि मानसं बोधान्तरमारोहति । अत एव चमत्कारीत्युच्यते । नहि निःशेषतया निवृत्तश्चमत्कारं जनयितुमीष्टे । न चान्तरेण चमत्कारजनकतामलंकारो भवति । तस्माद्विरोधियो नातीव शिथिलमूलत्वम्, नापि चात्यन्तिकी निवृत्तिः' इत्याहुः । ननु अपिशब्दादीनां प्रयोगे शाब्दो विरोधो भासत इति तथाप्यसंगतम् । निपातानां शाब्दिकनये शक्तेरस्वीकारादिति चेत न । निरूढलक्षणाया इव निरूढद्योतनाया अपि शक्तिसमकक्षत्वात् । अथ जात्योर्द्रव्ययोश्च विरोधालंकारो न भवितुमीष्टे । 'कुसुमानि शराश्चन्द्रो वाडवो दुःखिते हृदि' इत्यादावारोपमूलस्य रूपकस्यैवोल्लासात् । यदि च सत्यप्यारोपे विरोधाभास उच्यते, उच्यतां तर्हि 'मुखं चन्द्रः' इत्यत्रापि स एव । न च रूपकविषयस्य सर्वस्यापि विरोधेनाक्रान्तत्वान्निर्विषयत्वापत्या स्वविषये रूपकं विरोधस्य गुणादौ सावकाशस्यापवाद इति वाच्यम् । 'कुसुमानि शरा:', 'मृणालवलया For Private And Personal Use Only हरिद्भिर्दिग्भिः । न च नहि । निवृत्तिरित्याहुरिति । वयं तु ब्रूमः - सुप्तोऽपि द्ध इत्यादी समानाधिकरणविभक्त्यर्थयोरभेदः । अपिशब्देन च समभिव्याहृतैकपदार्थतावच्छेदकविरुद्धत्वमपरपदार्थतावच्छेदके योत्यते । तत्र गमकद्वयसत्त्वात्प्रकरणादेर्नियामकस्याभावाच्चार्थद्वयमपि युगपदवभासते । तत्राभेदस्य मुख्यवाक्यार्थत्वात्तद्योग्यार्थस्य विरुद्धार्थश्लेषभित्तिकाभेदाध्यवसायेन विशेषणत्वं विरुद्धार्थस्य तत्रेति युक्तम् । एवं च स्वापविरुद्ध जागरणा भिन्नविशिष्टज्ञानाश्रय इति बोधः । यत्र त्वपिशब्दाभावस्तत्र प्रथमतः शाब्दान्वयबोधे जाते सहृदयतावशाद्वितीयार्थोपस्थितौ विरहाद्युद्बोधकसहकृतैकसंबन्धिज्ञानविधया विरोधोपस्थितौ व्यञ्जनयैव तादृशबोधः । अतएवापिशब्दाभावे वि रोधो व्यङ्गय इत्याहुः । विरोधस्याभासत्त्वं चाहार्यबोधविषयत्वात्कार्यनिष्पादकत्वाभा -
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy