________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। -
भावात् । न चासो लिङ्गान्तर्गत इति मन्तव्यम् । शक्यान्तरे नियमेनावृतेरेव प्रकृते लिङ्गत्वात् । शङ्खचक्रयोस्त्विन्द्रादिनापि कदाचिद्धारणसंभवात् । विप्रयोगो विश्लेषः।
यथा--'अशङ्खचक्रो हरिः' इत्यत्र तयोरेव विश्लेषस्तथा । अत्र हि विश्लेषनियतपूर्ववर्तिनः संश्लेषस्य प्रागुक्तदलद्वयाक्रान्तत्वमपेक्ष्यते । तेनायुधसामान्यविभागः, पाशाङ्कशादिविभागो वा न तथा । यद्यप्यत्र गुणतया वर्तमानस्तादृशसंयोग एवाभिधानियमनायालम्, तथापि गुणप्रधानयोः संनिपाते प्रधानानुरोध एव न्याय्य इत्याशयेन विप्रयोगस्य नियामकत्वमुक्तम् । यहा संयोगस्यैव केवलत्वेन, विश्लेषगुणीभूतत्वेन च दैविध्यप्रदर्शनाय तथोक्तम् ।
साहचर्यमेकस्मिन्कार्ये परस्परापेक्षितम् ।
यथा-'रामलक्ष्मणौ' इत्यत्र रामे लक्ष्मणसाहचर्य रामशब्दस्य । अथ किमिदं परस्परापेक्षित्वं यत्किचित्काय, सर्वेषु कार्येषु वा । नाद्यः । घटाद्यव्यावर्तनावटसाहचर्यस्यापि रामपदशक्तिनियामकतापत्तेः। न द्वितीयः । लक्ष्मणसाहचर्यस्यापि निवारणापत्तेः । पक्षद्वयेऽपि रामायोध्ये रघुरामावित्यत्रानियमापत्तेश्च । न च नानार्थपदसमभिव्याहृतपदान्तरार्थस्य प्रसिद्धः संबन्धस्तत् । स चैकजन्यत्वदांपत्यजन्यजनकभावस्वामिभृत्यभावस्वस्वामिभावादिरनेकविधः । तेन रामलक्ष्मणौ, सीतारामौ, रामदशरथौ, रामहनूक्रमेण दलद्वयकृत्यमाह-न त्वायुधति । असौ संयोगः । लिङ्गत्वात्तत्त्वेन ग्रहणात् । तथा च विशेषणदले नियमेनेति परणीयमिति भावः । तयोरेव शङ्खचक्रयोरेव । तथा अभिधानियामकः । एवमग्रेऽपि । अतिप्रसङ्गवारणायाह--अत्रेति । तेन संश्लेषपूर्वकस्यैव तस्य ग्रहणमिति नातिप्रसङ्गः । प्राग्वत्तत्कृत्यमाह-तेनेति । गुणतया प्रकारतया । तादृशति । दलद्वयाक्रान्तेत्यर्थः । अलं समर्थः । विश्लेषस्य नियामकत्वकल्पनजगौरवादाह-यद्वेति । केवलत्वेन शुद्धसंयोगत्वेन । रामशब्दस्य । राघवेऽभिधानियामकमिति शेषः । निवारणेति । सर्वकार्ये तदभावादिति भावः । पक्षद्वयेऽपीति । कार्यमात्रे तयोस्तदभावात् । आयेऽसंभवात्, अन्त्ये तदा रघोरसत्त्वादिति भावः । प्रसिद्ध इति। नानार्थपदार्थे इति शेषः । तत्साहचर्यम् । उक्तसंबन्धानां क्रमेणोदाहरणान्याह-ते.
For Private And Personal Use Only