SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org रसगङ्गाधरः । ४४३ I रिजातराहित्यस्याभावरूपस्य नित्यत्वात्कारणाप्रसिद्धिरिति वाच्यम् । आलंकारिकनये तस्यापि जन्यत्वस्येष्टेः । लक्षणे कार्यकारणपदयोरुपलक्षणत्वस्योक्तत्वाच्च । 'गोत्रोद्धारप्रवृत्तोऽपि' इत्युदाहरणे तु 'विरुद्धात्कासंपत्तिर्दृष्टा काचिद्विभावना' इति पञ्चमविभावनालक्षणाक्रान्तत्वाद्विभावनयैव गतार्थत्वादसंगतिभेदान्तरकल्पनानुचिता । गोत्रोद्धारविषयकप्रवृत्ते - गोत्रोदरूपकार्ये विरुद्धत्वात् । सिद्धान्तेऽपि विभावनाविशेषोक्त्योः संकर एवात्रोचितः । ' नेत्रेषु कंकणं' इत्यादौ कंकणत्वनेत्रालंकारत्वयोर्व्यधिकरणत्वेन प्रसिद्धयोः सामानाधिकरण्यवर्णनाद्विरोधाभासत्वमुचितम् । एवं मोहनिवर्तकत्वमोहजनकत्वयोरपीति । ननु तवापि विरोधाभासेनैवोपपत्तेर्विभावनादिकल्पनानर्थक्यमिति चेत्, न । दत्तोत्तरत्वात् । इति रसगङ्गाधरेऽसंगतिप्रकरणम् । www Acharya Shri Kailassagarsuri Gyanmandir अथ विषमालंकारः अननुरूपसंसर्गो विषमम् । अनुरूपमिति योग्यतायामव्ययीभावः । अनुरूपं यत्र न विद्यत इति विगृहीतेन बहुव्रीहिणा योग्यतारहितमुच्यते । योग्यता च युक्तमिदमिति - For Private And Personal Use Only बन्धशब्दे श्लेषः । गोत्रायाः पृथिव्याः । गोत्राणां पर्वतानाम् । जन्यत्वस्येष्ठेरिति । जन्यत्वेऽपि चिकीर्षायाः कृत्यान्यथासिद्धतया कार्यजनकत्वे मानाभावः । अधिकरणातभी सा चिकीर्षाया अहेतुत्वात् । अन्यत्र चिकीर्षितस्यापि प्रमादादिनान्यत्रकरणे व्यभिचारात् । एवं च वैयधिकरण्यं विरुद्धमेव न । किं चात्र न तत्कार्यकारणवैयधिकरण्यकृतचमत्कारः, अपि त्वन्यत्र कर्तव्यस्यान्यत्र करणप्रयुक्त एवेत्यर्थस्य सर्वसंमतत्वेन ततो भेदौचित्यात् । किं च पूर्वोदाहरण इवानयोः कार्यकारणयोर्विरोधस्य दुःसमाधानत्वेन नात्र सः । आपाततो विरुद्धत्वेन भासमानमेवेति तत्पूर्वासंगतिरिति चिन्त्यम् । पञ्चमविभावनोत । विरुद्धत्वेन प्रसिद्धयोरेव सेति केचित् । किं चोपालम्भरूपेऽस्मिन्वचसि विरुद्धकृतिमानकृत एव चमत्कारः, तत्र तु विरोधनिवृत्तिकृतोऽपीति महान्विशेषः । विरोधाभासत्वमुचितमिति । समानविभक्तिकाभावात्सामानाधिकरण्यस्य शब्दादप्रतीतेरभेदस्याभानाच्च चिन्त्यमिदम् । ययोविरोधप्रतीतिस्तयोरर्थान्तरमादायापि सामानाधिकरण्यप्रतीतेश्च ॥ इति रसगङ्गाधरमर्मप्रकाशेऽसंगतिप्रकरणम् ॥ प्राग्वदाह - अथेति । तत्रान्तरप्रसिद्धार्थनिरासायाह-योग्यता चेति । द्विती
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy