________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९६
काव्यमाला।
दनं तन्व्या नभसीव निशाकरः' इत्यत्र । अत एवोच्यते--'प्राधान्येन व्यपदेशा भवन्ति' इति । एवं चालंकारान्तरोपस्कारकतया स्थितः श्लेषः कथंकारं स्वगृहस्थ इव श्लेषालंकारव्यपदेशं वोढुमीष्टामिति बाध्यप्राय एव" इत्याप्याहुः ।
तदित्थं संक्षेपेण श्लेषस्य दिक्प्रदर्शिता । यत्र तु प्रकृताप्रकृतोभयविशेप्ययोरपि श्लिष्टपदोपात्तत्वं स तु ध्वनोर्विषय इत्युक्तं स च यथा
'अविरलविगलद्दानोदकधारासारसिक्तधरणितलः ।
धनदायमहितमूर्तियतितरां सार्वभौमोऽयम् ॥' अत्र राजनि प्रस्तुते उदग्दिग्गजोऽप्रस्तुतोऽपि व्यञ्जनमर्यादया प्रतीयते । तत्राप्रस्तुताभिधानं मा प्रसासीदिति प्रस्तुताप्रस्तुतयोरुपमानोपमेयभावे तात्पर्य कल्प्यते । इमं च शब्दशक्तिमूलानुरणनरूपं ध्वनिमाहुः । उदाहृतश्च ध्वनिकारैः
'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणाम् ॥' मम्मटभटैश्च
'भद्रात्मनो दुरधिरोहतनोविशाल
वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । वेति । अत्रोपमया वर्ण्यपुष्टिः । उक्तार्थे प्राचीनसंमतिमाह-अत एवेति । ईदृशव्यवस्थाङ्गीकारादेवेत्यर्थः । नन्वेतावता प्रकृते कि सिद्धमत आह–एवं चेति । उक्तव्यवस्थाङ्गीकारे चेत्यर्थः । कथंकारं कथं कृत्वा । व्यतिरेके दृष्टान्त: । बाध्यप्राय एवेत्यप्याहुरिति । सर्वदो माधव इत्यादावलंकारान्तरसंभावनारहिते सावकाशस्य श्लेषस्यालंकारान्तरेण स्वविषये बाध्यत्वमेवेत्यर्थः । प्रतिभामात्रसत्त्वात्प्राय इति । अपिर्विशेषणसमुच्चायकः । अविरलेति । व्याख्यातमिदं प्राक् । तत्र तत्प्रतीतो सत्याम् । उन्नत इति । महानुच्चैश्च । प्रोसन्ती धारा यस्य सः । प्रोल्लसन्हारो यत्र स च । कालागुरुवन्मलीमसः श्यामः कालागुरुणा श्यामश्च । मेघसमूहः स्तनभारश्च । भट्टैश्चेति । उदाहृतमित्यस्यानुषङ्गः । भद्रेति । अत्र यच्छब्दः प्राकरणिकराजपरः । तत्पक्षे यस्य प्रकृतस्य राज्ञः करः पाणिनिरन्तरं दानार्थगृहोताम्बुसेकशोभनोऽभूत् । भद्रात्मनः कल्याणरूपस्य । दुरधोति । अनभिभवनीयशरीरस्य । वंश: कुलं तत्रोनतिराधिक्यं यस्य । कृतः शिलीमुखानां नाराचानां संग्रहोऽभ्यासदा_ येन । अनुपेति । अबा
For Private And Personal Use Only