SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ काव्यमाला। गमायाभिनवेति प्रवाहविशेषणम् । नात्र सादृश्यवर्णनस्य फलं द्वितीयसब्रह्मचारिव्यवच्छेदः तस्याप्रतिपत्तेः । स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । सुधांशुबिम्बतो मेरौ लम्बमान इवोरगः ॥' इति कल्पितोपमानिकायामुपमायामतिप्रसङ्गवारणायैकोपमानोपमेयकमिति । अत्रासत उपमानस्य कल्पनया सदुपमानं नास्तीति द्वितीयसद्दशव्यवच्छेदस्यास्ति प्रतीतिः। उदाहरणममृत(पीयूष)लहर्याख्ये मदीये गङ्गास्तवे कृतक्षुद्राघौघानथ सपदि संतप्तमनसः समुद्वर्तु सन्ति त्रिभुवनतले तीर्थनिवहाः । अपि प्रायश्चित्तप्रसरणपथातीतचरिता नरानूरीकर्तु त्वमिव जननि त्वं विजयसे ।' यथा वा 'इयति प्रपञ्चविषये तीर्थानि कियन्ति सन्ति पुण्यानि । ___ परमार्थतो विचारे देवी गङ्गा तु गङ्गेव ॥' पूर्वपद्ये वाच्योऽनुगामी धर्मः । इह तु व्यङ्ग्य इति विशेषः । तुशब्दोऽयं तीर्थान्तरेभ्यो वैलक्षण्यं प्रतिपादयंस्तत्प्रयोजकं भगवद्वासुदेवाप्रत्युदाहरणद्वये । द्वितीयसब्रह्मेति । द्वितीयसदृशेत्यर्थः । अनन्वय्यर्थनिबन्धनवशाद्धि द्वितीयसदृशव्यवच्छेदः फलति । नहि धर्मान्तरावच्छिन्नस्वस्य धर्मान्तरावच्छिन्नस्वेन साधर्म्यमनन्वयि । अत एवोपमेयतावच्छेदकोपमानतावच्छेदकयोर्भेद एव साधर्म्यघटकः । न तु धर्मिणोः इत्युक्तं प्राक् । एवं चानन्वय्यर्थनिबन्धनप्रयोज्यद्वितीयसदृशव्यवच्छेदफलकसादृश्यवर्णनमनन्वयः । एकोपमानोपमेयकत्वविशेषणं चात्रैवार्थे तात्पर्यग्राहकम् । अन्यथा धार्मभेदादेव तत्र वारणेन तद्वैयर्थ्य स्पष्टमेवेति भावः । तदाह-त. स्येति । तद्वयवच्छेदस्येत्यर्थः । असत इति। तथा च धर्मिभेदः स्पष्टोऽत्र । नास्तीति। अन्यथा तावत्पर्यन्तधावनं व्यर्थ स्यादिति भावः । अथ अल्पपापकरणानन्तरम् । सपदि तत्कालमेव । न तु कालान्तरे । प्राक्तनसुकृतोद्रेकादिति भावः । अपीति । प्रायश्चित्तप्राप्तिविषयत्वातिक्रान्ताचरणकानपीत्यर्थः । नरानिति पूर्वार्धेऽपि विशेष्यम् । निष्पापपत्वेन स्वीकर्तुम् । जननि गङ्गे । उदाहरणान्तरदाने बीजमाह--पूर्वेति । विजयसे इति वाच्यः सर्वोत्कर्षरूप इत्यर्थः । इह तु इति । स एवानुगामीति शेषः। पूर्ववदत्र स्पष्टवैलक्षण्याभावादाह-तुशब्दोऽयमिति । 'तुशब्दोऽत्र' इति पाठान्तरम् ।रतीति । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy