________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
काव्यमाला |
तस्याश्चात्र वाक्यवेद्यत्वेऽपि पदस्यैव कुर्वद्रूपत्वात्पदध्वनिविषयत्वम् । एतेन भावानां पदव्यङ्गत्वे न वैचित्र्यमिति परास्तम् । सायंतनाम्बुजोपमानेन नयनयोरुत्तरोत्तराधिकानिमीलनोन्मुखत्वध्वननद्वारा तस्या आनन्द
मग्नताप्रकाशः ।
'दरानमत्कंधरबन्धमीषन्निमीलितस्निग्धविलोचनाब्जम् ।
अनल्पनिःश्वासभरीलसाङ्गं स्मरामि सङ्गं चिरमङ्गनायाः ॥' इत्यत्र स्मृतिर्न भावः । स्वशब्देन निवेदनाद्व्यङ्ग्यत्वात् । नापि स्मरणालंकारः । सादृश्यामूलकत्वात् । सादृश्यमूलकस्यैव स्मरणस्यालंकार - त्वम्, अन्यस्य तु व्यञ्जितस्य भावत्वमिति सिद्धान्तात् । किं तु विभाव एव सुन्दरत्वात्कथंचिद्रसपर्यंवसायी ।
स्त्रीणां पुरुषमुखावलोकनादेः पुंसां च प्रतिज्ञाभङ्गपराभवादेरुत्पन्नो वैवर्ण्यधोमुखत्वादिकारणीभूतश्चित्तवृत्तिविशेषो व्रीडा ।
यथा
'कुचकलशयुगान्तर्यामकीनं नखाङ्कं सपुलकतनु मन्दं मन्दमालोकमाना । विनिहितवदनं मां वीक्ष्य बाला गवाक्षे
चकित तनताङ्गी सद्म सद्यो विवेश ॥ ' अत्र प्रियस्य दर्शनं तेन नायिकाकर्तृकतत्कुचान्तर्वर्तिप्रियनखक्षतावलोकनजन्यहर्षावेदकतत्पुलकादेर्दर्शनं च विभावः । सद्यः सदनप्रवेशो ऽनुभावः ।
तित्वेन स्मृतेरिति । व्यक्तिर्व्यञ्जना | 'व्यङ्गयस्य कथमपि वाच्यवृत्त्यैनालिङ्गितस्यैव चमत्कारित्वमित्यालंकारिकसमय:' इति पूर्वतनग्रन्येन विरोधाञ्चिन्त्यमेतत् । व्यङ्गयता-. वच्छेदकतया भासमानजात्यादिरूपेण यत्र वच्यिता तत्रैवाचमत्कारिता । पूर्वोदाहरणे हि मनोरथत्वेच्छात्वयोर्घटत्व कलशत्ववदेकतया तेन रूपेणैव वाच्यतास्तीति न दोष इत्यपि कश्चित् । तस्या नायिकायाः । विभाव एव नायिकारूप एव । कथंचित्सामम्यन्तराभावकृतः क्लेशः । सपुलकतन्विति क्रियाविशेषणम् । गवाक्षे विनिहितवदनमित्यन्वयः । चकितेत्यत्र कर्मधारयद्वयम् । तेनेति । प्रियेणेत्यर्थः । तत्कर्तृकमिति यावत् । पुलकादेर्दर्शनमित्यत्रान्वयः । तत्कुचेति । नायिकाकुचेत्यर्थः । एवमग्रेऽपि । सद्मश
For Private And Personal Use Only