________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
'न मनागपि राहुरोपशङ्का न कलङ्कानुगमो न पाण्डुभावः । उपचीयत एव कापि शोभा परितो भामिनि ते मुखस्य नित्यम् ॥' अत्र राहुरोषशङ्काभावादिभिर्निरपेक्षैर्वस्तुभिर्व्यतिरेकालंकारो व्यज्यते । 'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति विरुदावली महितमन्दिरे वन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः ॥' अत्र युगान्तदहनोपमया यदैव तव कोपोदयस्तदेव रिपूणां संपदो भस्मसाद्भविष्यन्तीति वस्तु व्यज्यमानं राजविषयकरतिभावेऽङ्गमपि वाच्यापेक्षया सुन्दरत्वावनिव्यपदेशहेतुः । न च भस्मीकरणपटुत्वरूपस्य साधारणधर्मस्योपमानिष्पादकत्वाद्वयङ्गयस्य वाच्यसिद्ध्यङ्गत्वं शङ्कयम् । उपात्तशोणत्वरूपसाधारणधर्मेणापि तन्निष्पत्तेः संभवात् । उपमेयीभूतशोणद्युतिगतस्य भस्मीकरणपटुत्वरूपसाधारणधर्मस्योपमानिष्पादकत्वेऽप्युपमेयव्यङ्ग्यको पगतभस्मीकरणपटुत्वस्यातथात्वाच्च ।
१३५
यथा वा
'निर्भिद्य क्ष्मारुहाणामतिधनमुदरं येषु गोत्रां गतेषु द्राविष्टस्वर्णदण्डभ्रमभूतमनसो हन्त धित्सन्ति पादान् । यैः संभिने दलाप्रचलहिमकणे दाडिमबीजबुद्ध्या चञ्चचाञ्चल्यमश्चन्ति च शुकशिशवस्तेंऽशवः पान्तु भानोः ॥'
For Private And Personal Use Only
वर्धते । नदन्तीति । स्वतः संभव्यलंकारेण वस्तुनो यथेत्यादिः । मदशब्दे अर्शआयच् । बिरुदावलीं स्तुतिपरम्पराम् | अहितमन्दिरे शत्रुगृहे । तदवधि तावत्पर्यन्तम् । एवमग्रेऽपि । उपमयेति । वाच्ययेति शेषः । व्यङ्गयस्येति । तच्छरीरनिविष्टत्वादिति भावः । तन्निष्पत्तेरुपमानिष्पत्तेः । विनिगमनाविरहेऽप्याह - उपमेयीभूतेति । उपमाया वाच्यत्वेन तदवस्थायां यदुपमेयं तद्गतधर्मस्यैव तन्निष्पादकत्वम् । न तूपमेयभूतोपमाव्यङ्गरूपको पगतस्य तद्धर्मस्य । तदा तस्यानुपस्थितेः । तथा च यस्य तन्निष्पादकत्वं न तस्य व्यङ्गघत्वम्, यस्य तत्त्वं न तस्य तत्त्वम् । सोऽनुपात्त इत्यन्यदस्योदाहरणान्तरमाह - यथा वेति । ते रविकिरणा युष्मान्पान्तु । के । येषु तरूणामतिनिबिअमन्तःप्रदेशं विदार्य भूमिं गतेष्वतिदीर्घसुवर्णदण्डसंबन्धि भ्रमेण भृतं पोषितं मनो येषां