________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२४१
दुरिष्टत्वात् । अत एव योग्यताज्ञानस्य बाधनिश्वयपराहतस्यापि शाब्दधीहेतुत्वम् । तस्मादेतदन्यतरप्रकारेण काव्ये सर्वत्र बोधोपपत्तिः । अपि च तद्गतधर्मवत्त्वबुद्धेः कथं तदभेदबुद्धिः फलं स्यात् । नहि साधारणधर्मावच्छिन्नाभेदज्ञानस्य तत्तदसाधारणधर्मावच्छिन्नाभेदज्ञाने हेतुत्वं क्वाप्यवगतम् । घटपटयोर्द्रव्यत्वनोभेदग्रहेऽपि घटत्वादिना भेदग्रहात् । तदभिन्नत्वेन ज्ञानस्य पुनस्तद्धर्मप्रतिपत्तिः फलं स्यात् । प्रवाहाभिन्नज्ञानस्येव शैत्यपावनत्वादिप्रतिपत्तिः ।
अतएव
'कृपया सुवया सिञ्च हरे मां तापमूर्च्छितम् । जगज्जीवन तेनाहं जीविष्यामि न संशयः ॥'
इत्यादावमृताभिन्नत्वबोधे सत्येव कृपायाः सेके करणत्वेनान्वयः । तादृशसेकस्य च जीवने हेतुत्वेनेति दिक् ।
1
-
अथ कथं 'गाम्भीर्येण समुद्रोऽयं सौन्दर्येण च मन्मथः ' इत्यत्र बोधः । शुणु -- प्राचां तावक्ष्यमाणैकदेशे सादृश्ये प्रयोज्यताया अभेदस्य वा तृतीयार्थस्यान्वयाद्गाम्भीर्यप्रयोज्यसमुद्रसादृश्यवदभिन्नोऽयं गाम्भीर्याभिन्नसमुद्रवृत्तिधर्मवदभिन्नोऽयमिति वा घोर्लक्षणां विनैव । अभेदसंसर्गेणान्वयवादिनां पुनरित्थम् — कविना स्वेच्छामात्रादुपकल्पिता असन्तोऽप्यन्तःकरणपरिणामात्मका अर्थ उपनिबध्यन्ते मुखचन्द्रादयः । तेषु च साधारणधर्माणामस्त्येव प्रयोजकत्वम् । तद्दर्शनाधीनत्वात्तन्निर्मितेः । एवं च गाम्भीर्यादिप्रयोज्यसमुद्राद्यभिन्न इति बुद्धिरप्रत्यूहेति । यद्वा ज्ञानजन्यज्ञानप्रकारत्वं तृतीयार्थः । वह्निमान्धूमादित्यादौ पञ्चम्यर्थतया तस्य कल्पनात् । एवं च गाम्भीर्यज्ञानजन्यज्ञानप्रकारसमुद्राभिन्न इत्यादिर्बोधः । तदिदं रूपकं विषयविषयिणोः सामानाधिकरण्ये अपदार्थतया संसर्गः ।
नेति रमणीयः पन्थाः । अभेदग्रहेऽपीति । अन्ये तु चमत्कारिसाधारणधर्मरूपसाहश्यज्ञान एव फलबलात्तथाशक्तिकल्पने चार्य दोष इत्याहु: । सेके करणत्वेनेति । न तु सदृशत्वेनेत्यर्थः । ज्ञाने तत्सदृशात्तत्कार्योत्पत्तेरनुभवविरुद्धत्वादिति भावः । नन्वेवमन्धकवेस्तन्निर्मितिर्न स्यादत आह- यद्वेति । यद्वा तज्ज्ञानस्य प्रयोजकत्वेऽपि तस्यातत्त्वादाह - तस्येति । ज्ञानजन्यज्ञान प्रकारत्वस्यान्यैः कल्पितत्वादित्यर्थः । कचिद्विशेष्य
३१
For Private And Personal Use Only