SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७८ काव्यमाला । स्मादन्वयिसमसंख्यपदार्थज्ञानस्य यथासंख्यान्वयवोधत्वं कार्यतावच्छेदकं वाच्यम् । एवं च 'कीर्तिप्रतापौ' इत्यत्र च यथाश्रुतानां यथासंख्यान्वयबोधो बाधनिश्चयपराहत इति मुख्यार्थहतिसद्भावात्क्रमभङ्गस्य दोषत्वसाम्राज्यम् । नन्वन्वयिसमसंख्यपदार्थानां यदि यथासंख्यान्वयबोधो व्युत्पत्तिसिद्धस्तदा 'यथासंख्यमनुदेशः समानाम्' इति सूत्रं व्यर्थं स्यात् । तदुदाहरणेषु 'लोमादिपामादिपिच्छादिभ्यः शनेलचः' इत्यादिषु लौकिकसामग्रीवलादेव यथासंख्यान्वयबोधोपपत्तेोग्यतामात्रबलात् । तथा बोघोपपादकमते तु शास्त्रमात्रचक्षुप्कैः प्रकृतिविशेषप्रत्ययविशेषसंवन्धरूपाया योग्यताया अज्ञानात्तेषां यथासंख्यान्वयबोधार्थ 'यथासंख्यं' इति सूत्रम् इति चेत्, न । ममापि प्रागुक्तव्युत्पत्तिरहितानां तादशवोधार्थ सूत्रसार्थक्यात्" इत्याहुः । इदं तु बोध्यम्-यथासंख्यान्वयबोधो यथातथास्तु नाम । नात्रागृह्णीमः । यथासंख्यमलंकारपदवीमेव तावत्कथमारोहूं प्रभवतीति तु विचारणीयम् । नास्मिल्लोकसिद्ध कविप्रतिभानिर्मितत्वस्यालंकारताजीवातोलेशतोऽप्युपलब्धिरस्ति । येनालंकारव्यपदेशो मनागपि स्थाने स्यात् । अतोऽपक्रमत्वरूपदोपाभाव एव यथासंख्यम् । एवं चोटमतानुयायिनामुक्तयः कूटकार्षापणवदरमणीया एव । एतेन यथासंख्यमेव क्रमालंकारसंज्ञया व्यवहरतो वामनस्यापि गिरो व्याख्याताः इति तु नव्याः । इति रसगङ्गाधरे यथासंख्यप्रकरणम् । अथ पर्यायःक्रमेणानेकाधिकरणकमेकमाधेयमेकः पर्यायः । क्रमेणानेकाधेयकमेकमधिकरणमपरः। स्थाने युक्तः । नव्या इति । वस्तुतस्तु यथासंग्ख्यसूत्रबलात्पाणिनीयप्रयोगे पाष्टिकतयान्वयबोधे द्वन्द्वादेः साधुत्वेऽपि नान्यत्र साधुत्वम् । किं तु समदितान्वयवोधमात्र एवेति तदभिप्रायकास्ते प्रयोगा असाधव एव । अलंकारस्तु द्वितीयरीत्या व्यस्ते चरितार्थ इति बोध्यम् ॥ इति रसगङ्गाधरमर्मप्रकाशे यथासंख्यप्रकरणम् ।। For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy