________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
कत्वम् । तेन रसास्वादस्य काव्यव्यापाराजन्यत्वेऽपि न क्षतिः । शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दुष्यन्ताभेदबुद्ध्या प्रतिबध्यते" इत्याहुः । परे तु " व्यञ्जनव्यापारस्यानिर्वचनीयख्यातेश्चानभ्युपगमेऽपि प्रागुक्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलादिविषयकरत्यादिमदभेदबोधो मानसः काव्यार्थभावनाजन्मा विलक्षणविषयताशाली रसः । स्वामादिस्तु तादृशबोधो न काव्यार्थचिन्तनजन्मेति न रसः । तेन तत्र न तादृशालादापत्तिः । एवमपि स्वस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथं नाम स्यात् । मैवम् । नह्ययं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात् । अपि तु भ्रमः । आस्वादस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयंकत्वालम्बनः” इत्यपि वदन्ति । एतैश्च स्वात्मनि दुप्यन्तत्वधर्मितावच्छेदकशकुन्तलादिविषयकरतिवैशिष्टयावगाही, स्वात्मत्वविशिष्टे शकुन्तलादिविषयकरतिविशिष्टदुप्यन्ततादात्म्यावगाही, स्वात्मत्वविशिष्टे दुप्यन्तत्वशकुन्तलाविषयकरत्योवैशिष्टयावगाही, वा त्रिविधोऽपि बोधो रसपदार्थतयाभ्युपेयः । तत्र 'रतेविशेषणीभूतायाः शब्दादप्रतीतत्वाद्यञ्जनायाश्च तत्प्रत्यायिकाया अनभ्युपगमाच्चेष्टादिलिङ्गकमादौ विशेषणज्ञानार्थमनुमानमभ्युपेयम् । मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिनयप्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात्क्रयते' इत्येके । मतेऽस्मिन्साक्षात्कारो दुश्यन्तोऽयं शकुन्तलादिविषयकरतिमानित्यादिः प्राग्वद्धयंशे लौकिक आरोप्यांशे त्वलौकिकः । 'दुष्यन्तादिगतो रत्यादिनटे पक्षे दुप्यन्तत्वेन गृहीते विभावादिभिः कृत्रिमैरप्यकत्रिमतया गृहीतैर्भिन्ने विषयेऽनुमितिसामग्र्या बलवत्त्वादनुमीयनमानो रसः' इत्यपरे । रति-शकुन्तलादाविति । प्रागुक्तदोषमुद्धरति-स्वामादिस्त्विति । नन्वेवं बोधस्यैव सत्त्वेन कथमास्वादे रसविषयकत्वव्यवहारोऽत आह-आस्वादति । एतैश्च 'परे तु' इतिवादिभिश्च । अभ्युपेय इति । विनिगमनाविरहादिति भावः । रस इति । रत्यादिरूपो रस इत्यन्वयः । दुष्यन्ताद्यनकर्तरीति । श्रव्यकाव्ये तु काव्यपाठक इति बोध्यम् । मतेऽस्मिन्निति । अस्मिन्मते इत्यादिः । साक्षात्कारस्तत्र लौकिकोऽन्यत्रालौकिक इत्यन्वयः । मतान्तरमाह-दुष्यन्तादीति। कतिपये केचन । त्रिषु विभा
For Private And Personal Use Only