________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
इदमेव मालारूपं यथा
'कमलावासकासारः क्षमाधृतिफणीश्वरः ।
अयं कुवलयस्येन्दुरानन्दयति मानवान् ॥' शुद्धपरम्परितं केवलं यथा'देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता
देवं जल्पन्ति तावत्प्रतिभटटतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते
मुग्धारिप्राणदुग्धाशनमसूणरुचिस्त्वकृपाणो भुजंगः ॥' अत्रापि भुजंगारोपो दुग्धारोपसमर्थ्यत्वेनाभिमतः । तदेव मालारूपं यथा'प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति
|लामाला कराला कवलितजगतः क्रोधकालानलस्य । आज्ञाकान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसाभा
क्षोणीन्दो संगरे ते लसति नयनयोरुद्भटा शोणिमश्रीः ॥' यद्यपि सावयवेऽप्यारोपे आरोपान्तरस्योपायस्तथापि तत्रारोपातिरिक्तेन कविसमयसिद्धसादृश्येनाप्यारोपान्तरसिद्धिः संभवति । यथा प्रागुक्ते 'सुन्दरि राकासि नात्र संदेहः' इत्यत्र मौक्तिकादीनां तारात्वाद्यारोपं विनाप्यौज्ज्वल्यमात्रेणापि सुन्दर्या राकारोपसिद्धेः, इह तु नयनशोणिम्नि ज्वालाद्यारोपोऽनलसमारोपं नियमेनापेक्षते ।
एवं 'कारुण्यकुसुमाकाशः खलः' इत्यत्राकाशखलयोः सादृश्यस्याप्रसिद्धतयारोपसिद्ध्यर्थमारोप एवोपाय इति वैलक्षण्यम् । त्पर्यविषयत्वेन समर्थनीयत्वेन तद्वेद्यत्वादेव । भङ्गेति । पदच्छेदेत्यर्थः । इदमेव श्लिष्टप- . रम्परितमेव । कमलेति । कमलानामावासः । कमलाया वासः । पृथ्वीकृतिः । क्षान्तिधृतिः । पृथ्वीमण्डलस्य कुमुदस्य च । अयं वो राजा । अत्र समर्थककमलावासाधारोपस्य श्लेषमूलकस्य चन्द्रारोपे निमित्तत्वाद्राज्ञि कासाराद्यनेकपदार्थारोपरूपत्वाच मालाश्लिष्टपरम्परितरूपकता । पूर्वदेवा दैत्याः । 'समिति' इति 'क इह' इति द्विः पाठः । व्याख्यातमिदम् । दुग्धारोपति । अनेन परम्परितत्वमुक्तम् । श्लेषमालयोरभावाच्छुद्धकेवलत्वे । तदेव शुद्धपरम्परितमेव । प्राचीति । अपिना मालारूपकपरिग्रहः ।
For Private And Personal Use Only