________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२३३ णनेऽगणनप्रसङ्गात् । एतेन गवां संघातो गोभेदानां कपिलादीनां गणनायां यथा न गण्यते तथा रूपकभेदगणनाप्रस्तुतौ न तत्संघातात्मकं सावयवं गणनीयम्' इति परास्तम् । एवमस्मात्संघातात्मकात्सावयवान्मालारूपकस्य संघातात्मकत्वेनाविशेषेऽप्येकविषयकत्वपरस्परनिरपेक्षत्वाभ्यामस्ति महाविशेषः । निरवयवं केवलं यथा
'बुद्धिर्दीपकला लोके यया सर्व प्रकाशते ।
अबुद्धिस्तामसी रात्रिर्यया किंचिन्न भासते ॥' अत्र रूपकद्वयमाप सापेक्षरूपकसंघातात्मकत्वविरहान्निरवयवम् । मालात्मकत्वविरहाच्च केवलम् ।
निरवयवं मालारूपकं यथा-- 'धर्मस्यात्मा भागधेयं क्षमायाः सारः सृष्टेर्जीवितं शारदायाः। आज्ञा साक्षाद्ब्रह्मणो वेदमूर्तरा कल्पान्तं राजतामेष राजा ॥'
एकविषयकनानापदार्थारोपरूपत्वान्मालारूपमिदम् । परस्परसापेक्षत्वविरहाच्च निरवयवम् । __ यत्र चारोप एवारोपान्तरस्य निमित्तं तत्परम्परितम् । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लेपमूलकत्वे श्लिष्टपरम्परितम् ।
यथा_ 'अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य ।
तस्य कुतोऽहिभयं स्यादखिलामपि मेदिनी चरतः ॥' अत्र द्वयोरप्यारोपयोः समर्थ्यसमर्थकभावस्य वस्तुतस्तुल्यत्वेऽप्यहितानामपकरणमेवाहीनां तापकरणमिति श्लेषमूलकेनारोपेण राजनि भेषजतादात्म्यारोपस्य समर्थनीयकतया कवेरभिप्रायः । अत एव भङ्गश्लेषनिवेदितोऽहिभयाभावोऽपि संगच्छते । एकविषयत्वेति । एतौ च मालारूपकनिष्टौ धौ । सावयवत्वानेकविषयकं परस्परसापेक्षं चेति बोध्यम् । शारदायाः सरस्वत्याः । साक्षादिति । अप्रतिहतशक्तित्वादिति भावः । एकेति । राजेत्यर्थः । द्वयोरपीति । अहिसंबन्धतापकरणभेषजारोपयोरित्यर्थः । 'समर्थनीयतायाम्' इति पापः । कवेरिति । प्राधान्यादिति भावः । अत एव तस्य ता
२०
For Private And Personal Use Only