SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः । ३५१ अत्र चालंकारे कस्यचिच्छाब्द सादृश्यनिषेधाक्षिप्तावुप मेयोत्कर्षोपमानापकर्षो, क्वचिच्च शाब्देनोपमेयोत्कर्षेणाक्षिप्तावुपमानापकर्षसादृश्याभावौ, क्वचित्तादृशेनोपमानापकर्षेणाक्षिप्तावुपमेयोत्कर्षतदभावौ तथा । तत्राद्यः प्राचीनरीत्या सभेद उदाहृतः । द्वितीयतृतीयावपि प्रायशस्तादावेव । तत्र दिङ्मात्रमुदाह्रियते'निशाकरादालि कलङ्कपङ्किलागुणाधिकं निर्मलमाननं ते । अनल्पमाधुर्यकिरोऽवरादिमा गिरोऽधरा गुप्तरसाः कवीनाम् ॥' अत्र पूर्वार्धे उपमेयोत्कर्षः शाब्दः । उपमानापकर्षसादृश्याभावावाक्षिप्तौ । द्वितीया उपमानापकर्षः शाब्दः । उपमेयोत्कर्षसादृश्याभावावाक्षिप्तौ । एवं कचियोस्त्रयाणां वा शाब्दत्वं संभवदपि नातीव हृद्यमिति नोदाहृतम् । क्वचिच्च त्रयमप्याक्षिप्तमेव । यथा 'अपारे किल संसारे विधिनैको ऽर्जुनः कृतः । की निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥' 'अशीतलो श्रण्डांशुरनुप्रशिशिरः शशी । उग्रशीतस्त्वमेकोऽसि राजन्कोपप्रसादयोः ॥ यथा वा स तु वर्षति वारि वारिदस्त्वमुदाराशय रत्नवर्षणः । स कुहूरजनी मलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥' अत्रोपमानतद्विशेपणोपादानसामर्थ्यादाक्षिप्त एव व्यतिरेकः, न तु त्थापीति । गुणान्तरकृत सादृश्यनिषेधोत्थापीत्यर्थः । अत्र चालंकारे इति । व्यतिरेकालंकार इत्यर्थः । तादृशेन शाब्देन । तदभावी सादश्याभावौ । तथा चमत्क तिजनकौ । तत्र तेषां मध्ये | तावद्भेदावेव चतुर्विंशतिभेदावेव । केषांचिदसंभवादुक्तं प्रायश इति । तत्र तयोर्विषये | आलीति संबोधनम् । नायिकां प्रति वयस्योक्तिः । गुप्तरसाः कवीनामिमा गिरस्ते बहुमाधुर्यवर्षकादधरादधरा अपकृष्टा इत्यर्थः । शाब्द इति । गुणाधिकमित्युक्तेरिति भावः । शाब्द इति । अधरा इत्युक्तेरिति भावः । एवं उक्तप्रकारेण । त्रयमपि उपमेयोत्कर्षोपमानापकर्षसादृश्याभावरूपम् | अर्जुनाः श्वेताः । उग्रशीत इति । यथासंख्यमन्वय: । उदाराशयेति संबोधनम् । कुहूरजनी अमारात्रिः । एवव्यावर्त्यमाह--न त्विति । व्यय इति तु कदापि न भ्रमितव्यमि - For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy