SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। २०७ द्वितीयो यथा 'एतावति प्रपञ्चे सुन्दरमहिलासहस्त्रभरितेऽपि । अनुहरति सुभग तस्या वामार्ध दक्षिणार्धस्य ॥' तृतीयो यथा गन्धेन सिन्धुरधुरंधरवक्रमैत्री___ मैरावणप्रभृतयोऽपि न शिक्षितास्ते । तत्त्वं कथं त्रिनयनाचलरत्नभित्ति स्वीयप्रतिच्छविषु यूथपतित्वमेषि ॥' एषूपमानान्तरविरहस्त्रिप्वपि भेदेषु गम्यते । इत्यनन्वयस्त्रिविधः ।" इति रत्नाकरेणोक्तम् । तन्न । उपमानान्तरविरहप्रतीतिमात्रादेवानन्वयत्वे 'स्तनाभोगे पतन्भाति-' इत्यत्रोपदर्शितायाः कल्पितोपमाया अपि तथात्वापत्तेः । यद्यर्थातिशयोक्तावतिप्रसक्तेश्च । तादृशप्रतीतिफलकैकोपमानोपमेयकसादृश्यस्य तत्त्वे पुनः कथं नाम वामार्धदक्षिणार्धयोभिन्नयोः सादृश्ये तद्भेदत्वोपन्यासः । न च स तदेकदेशस्तत्प्रतिबिम्बश्वेत्येतदन्यतमप्रतियोगिकसादृश्यमनन्वयः इति क्वातिव्याप्तिरव्याप्तिति वाच्यम् । नास्त्यन्वयोऽस्येति योगार्थविरहेण तदेकदेशसादृश्यस्यानन्वयपदार्थत्वासंतस्य । तत्त्वेति । उपमानत्वेत्यर्थः । महिला स्त्री । दक्षिणार्धस्येति कर्मणः शेषत्वविवक्षायां षष्ठी । अत्रोपमेयं समुदिता नायिका । गन्धेनेति । हे सिन्धुरधुरंधरवक्र गजश्रेष्ठमुख गणपते, ऐरावणप्रभृतयोऽप्यैरावतादयोऽपि ते त्वया गन्धेन सुगन्धेन मैत्रीं न शिक्षिताः । यद्वा गन्धेन संबन्धेन लेशेन गर्वेण वा । अपिर्गन्धपदोत्तरं मैत्रीपदोत्तरं वा योज्यः । तत्तस्मात्कारणात्त्वं कैलासाचलरत्नखचितभित्त्याधारकस्वप्रतिबिम्बेषु यूथपतित्वं दिग्गजत्वं कथमेषीत्यर्थः । उपमानान्तरविरह इति । तत्राये स्फुट एव । द्वितीये तदवयवस्य तदवयवान्तरोपमया तस्यां निरुपमत्वं सिद्ध्यति । अन्यथा तत्सदृशपदार्थांवयवेनैवैतदवयवस्योपमां दद्यात् । तृतीयेऽपि प्रतिबिम्बस्योपमानत्वकल्पनयान्यस्योपमानस्याभावो गम्यते। तथात्वेति । अनन्वयत्वेत्यर्थः । इटापत्तावाह-यदा?ति । तादृशेति । उपमानान्तरविरहेत्यर्थः । सादृश्यविशेषणमुभयत्र । तत्त्वे अनन्वयत्वे । पुनःशब्दस्तुशब्दार्थे । भिन्नयोरिति । तथा च द्वितीयविशेषणाभाव इति भावः। तद्भेदत्वेति । अनन्वयविशेषत्वेत्यर्थः । सेति । उपमेयेत्यर्थः । इदानीमाद्यविशेषणं न देयम् । तद्विरहस्य नान्तरीयकत्वादिति भावः । विरहेणेति । अबाधितत्वादिति भावः। For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy