________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
इयमिति वाच्यम् । कारकतुल्ययोगितोच्छेदापत्तेः सकलालंकारिकसिद्धान्तविरोधापत्तेश्च । लक्षणद्वयस्यानुगतत्वाच्च । तादृशलक्षणद्वयान्यतरवत्त्वस्य लक्षणत्वे गौरवादुपलवप्रसङ्गाच्च । एवं च 'स्विद्यति कूणति - ' इत्याद्युदाहरणमपि न संगच्छते । क्रियाणां शुद्धप्रकृतत्वात् । किंव दीपक तुल्ययोगित्वादौ गम्यमानमौपम्यं जीवातुरिति सर्वेषां संगतम् । न चात्र स्वेदनकुणनादीनामेककारकान्वितानामप्यौपम्यं कविसंरम्भगोचरः । तस्मात्समुच्चयालंकारच्छायात्रोचिता । अस्मदुदीरितानां वसुदानादीनां हीनसत्त्वत्वासनादीनां च राजकर्तृकाणां पद्यद्वयगतानामौपम्यप्रतीतौ सहृदयहृदयमेव प्रमाणमिति न प्रतिवन्दिदानावसरः । यदि तु स्वेदनादीनामौपम्यं प्रतीयत एवेत्याग्रहस्तथापि क्रियाणां शुद्धप्रकृतत्वात्तुल्ययोगिता स्यादपि न तु दीपकमित्यास्तां तावत् । यदपि विमर्शिनीकृतोदाहृतम्"आलिङ्गितुं शशिमुखीं च सुधां च पातुं
,
कीर्ति च साधयितुमर्जयितुं च लक्ष्मीम् । त्वद्भक्तिमद्भुतरसां हृदये च कर्तुं
मन्दादरं जनमहं पशुमेव मन्ये ॥' अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्ट इति ।" तदपि चिन्त्यम् | आलिङ्गनादीनां क्रियाणां मन्दादरत्वेनैकाश्रयकत्वस्याश्यकत्वेSपि परस्परमेकाश्रयकत्वस्यानावश्यकत्वात् । यः शशिमुखीमालिङ्गितुं
For Private And Personal Use Only
३२९
-
धर्मस्येति । सकृद्वृत्तेर्दा पकत्वमित्यर्थः । उच्छेदापत्तेरिति । त्वद्रीत्या कारकदीपकेनैव तत्र भाव्यमिति भावः । इष्टापत्तावाह -- सकलेति । तत्रापीष्टापत्तावाहलक्षणेति । अनुगमसत्त्वान्नायं दोषोऽत आह - तादृशेति । नन्वगत्या गौरवस्वी - कारोऽत आह- उपप्लवेति । प्रागुक्तरीत्यान्यतमवत्त्वेन सर्वेषामैक्ये उपमायुच्छेदापतेरित्यर्थः । एवं च उक्तभेदानङ्गीकारे च । प्रकृताप्रकृतत्वे एव तदङ्गीकारादाह-क्रियाणामिति । कविसंरम्भगोचर इति । केवलं तादृशनायिका स्वभाववर्णनस्यैव तत्त्वादिति भावः । चकाराभावादाह - छायेति । अत्र स्विद्यतोत्यादौ । नन्वेवं त्वदुदाहरणेऽप्यौपम्ये तदविषयत्वात्कथमेतदुदाहरणत्वमत आह- अस्मदिति । आलिङ्गितुमिति । ईश्वरं प्रति भक्तोक्तिः । इदं सर्वे कर्तुं यो मन्दादरस्तं जनमहं पशुमेव मन्ये इत्यर्थः । आवश्यकत्वेऽपीति । मन्दादरत्वस्य सर्वत्र विशेषणत्वादिति