________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
काव्यमाला।
यश्च सुधां पातुं योऽपि कीर्ति साधयितुं यश्च लक्ष्मीमर्जयितुं यश्चापि त्वद्भक्तिं कर्तुं मन्दादरस्तं सर्वमपि जनं पशुं मन्ये इति तुमुन्नन्तानां भिनकर्तृत्वेऽप्युपपत्तेरेककारकान्वयकृतं क्रियाणामौपम्यं चमत्कारीति न शक्यते वक्तुम् । किं तु शशिमुखीसुधाकीर्तिलक्ष्मीत्वद्भक्तीनां बिम्बप्रतिबिम्बभावकतम् । नापि चात्रैककर्तृत्वे काचिदर्थस्यास्ति परिपुष्टिः । प्रत्युत प्रातिकूल्यम् । सर्वेषां पशुत्वोक्त्यपेक्षया सकलतादृशक्रियाकरणमन्दादरस्यैकस्य पशुत्वोक्तेररमणीयत्वात् । यदि तु विमर्शिनीकारोक्तिवश्यं समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्---क्रियाणां कर्तुरेकत्वाभावेऽपि कर्तृतावच्छेदकस्य मन्दादरत्वस्यैक्यात्तस्यैव च परम्परासंबन्धेनानेकक्रि. यासाधारणधर्मस्य सद्वृत्तिरस्तीति न दोषः । कारकस्येव कारकविभाजकोपाध्यवच्छेदकस्यापि सकृद्दृत्तेः कारकदीपकत्वेन परिभाषितुं शक्यत्वात् । कारकसकद्वत्तेस्त्वस्माभिरुक्तमेवोदाहरणमनुसतव्यम् ।
अत्रेदं बोध्यम्-तुल्ययोगितातो दीपकं न पृथग्भावमर्हति । धर्मसकृत्तिमूलाया विच्छित्तेरविशेषात् । विच्छित्तिवैलक्षण्यस्यैवालंकारविभागहेतुत्वात् । न च धर्मस्य सद्वृत्तेरविशेषेऽपि धर्मिणां प्रकृतत्वाप्रकृतत्वाभ्यां प्रताप्रकतत्वेन च तुल्ययोगितायां दीपकस्य विशेष इति वाच्यम् । तवापि तुल्ययोगितायां धर्मिणां केवलप्रकृतत्वस्य केवलाप्रकृतत्वस्य च विशेषस्य सत्त्वादलंकारद्वैतापत्तेः । श्लेषेऽपि द्वैतापत्तेश्च । सर्वेषामप्यलंकाराणां प्रभेदवैलक्षण्याद्वैलक्षण्यापत्तेश्च । न च दीपके वास्तवमौपम्यं गम्यम् । उपमानोपमेययोः प्रकृताप्रकृतरूपयोस्तत्र सत्त्वात् । तुल्ययोगितायां च वैवक्षिकम् । उपमानोपमेयस्वरूपाभावात् । अतो वैलक्षण्यमिति वाच्यम् । उपमेयोपमानत्वयोः प्रताप्रकृतरूपत्वे मानाभावात् । 'खमिव जलं जलमिव खम्' इत्याद्युपमेयोपमायां प्रतीपे भावः । नन्वेवमपि कारकस्य सकृद्वत्तेरभावात्कथं तत्त्वमत आह-कारकस्येवेति । कारकशब्द उभयपर इति भावः । तहि कारकदीपकस्य किमुदाहरणमत आह-कारकेति । क्रमेणाह-प्रकृतत्वेति । न केवलमत्रैव दोषोऽपि वन्यत्रापीत्याह--श्लेषेऽपीति । भङ्गाभङ्गभेदादिति भावः । न केवलमेतावदित्याह-सर्वेषामिति ।
For Private And Personal Use Only