________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
३०७
अभेदाध्यवसायमात्रं यथा प्रागुदाहृतायां हेतूत्प्रेक्षायाम् 'व्यागुञ्जन्मधुकरपुञ्जमञ्जुगीताम्' इत्यत्र शाखानीचत्वकंधरानमनयोरभेदाध्यवसाय एव त्रपाहेतृत्प्रेक्षानिमित्ततयोपात्तस्य कंधरानमनस्य नीचशाखनतकंधरोभयसाधारण्ये बीजम् ।
एवं सर्वत्र हेतुफलयोरुत्प्रेक्षणे यस्य हेतुः फलं वोत्प्रेक्ष्यते सोऽनेन प्रकारेण साधारणीकृतो निमित्तमित्यसकदावेदितम् ।
एवं क्वचिदुपात्तो धर्मो विषयविषयिसाधारण्याभावादसुन्दरत्वाद्वा खयमुत्प्रेक्षणं साक्षादुत्थापयितुमसमर्थोऽपि तदुत्थापनक्षमधर्मान्तरोत्थापनेनानुकूल्यविधानादुपयुज्यते । यथा 'द्यौरञ्जनकालीभिः' इति प्रागुदाहृते पद्ये दिवो जलदालीसमावृतरूपो धर्म उपात्तो जगतो निलॊचनवर्गसर्गत्वोत्प्रेक्षायां वैयधिकरण्यादप्रयोजकोऽपि स्वप्रयोज्यनिबिडान्धकारप्रयुक्तचाक्षुषज्ञानसामान्यशून्यत्वस्य तथाविधोत्प्रेक्षानिमित्तस्योत्थापनेनाविषयोऽप्युपात्तो निरूपित एव । क्वचिदयमपहृतोऽपि भवति । यथा'जगदन्तरममृतमयैरंशुभिरापूरयन्नयं नितराम् । उदयति वदनव्याजाकिमु राजा हरिणशावनयनायाः ॥'
इति रसगङ्गाधर उत्प्रेक्षाप्रकरणम् । अथातिशयोक्तिःविषयिणा विषयस्य निगरणमतिशयः । तस्योक्तिः। तच्च स्ववाचकपदेन शक्यतावच्छेदकरूपेणैवान्यस्य बोधनम् । अत्र च विषये विषयिवाचकपदस्य लक्षणायाः शक्यतावच्छेदकमात्रप्रकारकसाधारण्यसत्त्वेऽप्याह -असुन्दरेति । उपयुज्यत इति । एवं च तदानर्थक्यं नेति भावः। तत्राद्योदाहरणमाह--यथेति। तथाविधोत्प्रेक्षेति । जगतो निर्लोचनवर्गसर्गवोत्प्रेक्षेत्यर्थः । अयं विषयः । जगदन्तरं जगन्मध्यम् । राजा चन्द्रः । विषयापह्नवश्चात्र राजतादात्म्यसंभावनादाायेति बोध्यम् ।। इति रसगङ्गाधरमर्मप्रकाश उत्प्रेक्षाप्रकरणम् ॥ ' अथातिशयोक्ति निरूपयति-अथेति । योगरूढं तदित्याह-विषयीति । निगरणपदार्थमाह-तच्चेति । स्ववाचकपदेनेति । लक्ष्यतावच्छेदकं च मुख्यत्वमेवेति प्रागेव निरूपितं मूले । ननु रूपकादभेदस्तत्राह-अत्र चेति । अतिशयोक्ता
For Private And Personal Use Only