________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
अत्रोन्मीलननिमीलनयोः पद्मपत्राद्याश्रयभेदेन भिन्नयोरपि प्रकटत्वाप्रकटत्वाद्येकोपाध्यवच्छिन्नतयाभिन्नीकृतयोरुपादानमित्यस्त्येकक्रियासंबन्धः । अत्र एव न श्लेषः। तस्य प्रतिपाद्यतावच्छेदकभेद एव स्वीकारात् । एषूदाहरणेषु सहयोगतृतीयाप्रयुक्तो गुणप्रधानभावः । प्राधान्येन क्रियान्वये तु यथायथं तुल्ययोगिता दीपकं वा भवति । सहादिशब्दप्रयोगाभावेऽप्येषा संभवति । 'हो यूना-' इति निर्देशेन तृतीयायाः साम्राज्यात् । परं त्विवादिशब्दरहितोत्प्रेक्षादिवद्गम्या । अप्रधानभावस्तु शाब्द एव । ननु कथमप्रधानभावः शाब्द इत्युच्यते । यावता आर्थक्रियाद्यन्वयितारूपः स स्यात् पदार्थान्तररूपो वा । उभयथाप्यस्य वाचकशब्दाभावादशाब्दत्वमेवेति चेत् न । अस्ति तावत्सखण्डमखण्डं वा प्रधानत्वम् । यद्वशात् अयमस्मिन्नगरे प्रधान मुख्य इत्यादयो व्यवहारा आ पामरमुल्लसन्ति । तदभावरूप चाप्रधानत्वे 'सहयुक्तेऽप्रधाने' इति शास्त्रेण तृतीयायाः शक्तबोधनात्तस्य कथमशाब्दत्वम् । न च सहार्थेन युक्त वस्तुतोऽप्रधाने तृतीयेति तस्यार्थः न त्वप्रधानेऽर्थे वाच्ये इति । तथा च नोक्तार्थसिद्धिरिति वाच्यम् । एवं चाप्रधानग्रहणवैयापत्तेः । 'पुत्रेण सहागतः पिता' इत्यादौ पित्रादिभ्योऽन्तरङ्गत्वात्प्रथमोत्पत्तेरेवौ
कराः किरणाः ।प्रकटेति । उन्मीलनपदार्थप्रकटवादिरूपैकोपाधिवैशिष्टयेनाभिनीकृतयोरित्यर्थः । आदिना निमीलनपदार्थाप्रकटत्वपरिग्रहः । अत एवेत्यस्यार्थमाहतस्यति । श्रेषस्येत्यर्थः । एवं च निगीर्याध्यवसानरूपातिशयोक्तेरयं विषय इति भावः । प्राधान्येनेति । द्वयोरित्यादिः । यथायशमिति । प्रकृतत्वमात्रादौ प्रकृ. ताप्रकृतत्वे वेत्यर्थः । एषा सहोक्तिः । निर्देशति । अर्थयोगे तृतीया न तु शब्दयोगे इत्यनेन ज्ञापनादिति भावः । गम्येति । सहोक्तिरिति शेषः । शाब्द एवेति । तत्प्रयोगाभावेऽपीति भावः । यावता यस्मात् । सः अप्रधानभावः । पदार्थान्तरेति । अखण्डेत्यर्थः। चेन्नेति । तथानङ्गीकारादिति शेषः । तमेवाह अस्तीत्यादिना । सखण्डमिति । विशेष्यताख्यविषयतया प्रतीयमानत्वरूपस्येति तस्येत्यर्थः । अप्रधानस्यति तदर्थः । शाब्दक्रियान्वयत्वरूपं वेत्यर्थः । तदभावेऽपि तत्प्रतीतेराह-अखण्डं वेति। अनुभवबलादेव वैपरीत्यं नेति भावः । तदाह-यद्वशादिति । 'अप्रधानत्वे सहयुत्ते' इति पाठः । 'अप्रधानत्वेऽप्राधान्यत्वेन सह' इत्यपपाठः । वक्ष्यमाणग्रन्थविरोधात् । नन्वेवमपि प्रथमाया अविषये दोष एव अत आह-पुत्रेणेति । कारकैति । षष्ठ्या
For Private And Personal Use Only