________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
काव्यमाला।
बिम्बप्रतिबिम्बभावापन्ने तु
'कोमलातपशोणाभ्रसंध्याकालसहोदरः ।
कुङ्कुमालेपनो याति काषायवसनो यतिः ॥' इत्यादौ कुङ्कुमालेपनादिविशिष्टो यतिः कोमलातपादिविशिष्टसंध्याकालसदृशाभिन्न इति शक्त्या बोधे पश्चात्सादृश्यप्रयोजकधर्माकाङ्क्षायां श्रुतानां कोमलातपादीनामुपमानोपमेयविशेषणानां सादृश्यमूले तादात्म्याध्यवसाने साधारणत्वनिप्पत्तिः । कुङ्कुमालेपकषायवसनाभ्यामयं यतिरित्यत्र कुङ्कुमालेपकषायवसनयोरसाधारणयोरपि साधारणत्वज्ञानजननद्वारा कल्पनीयसादृश्यनिष्पत्तिप्रयोजकत्वात्प्रयोज्यत्वेन सादृश्येऽन्वयः । एकदेशान्वयः पुनरेषु पक्षेप्वगतिकतयाश्रीयत इत्युक्तमेव । सादृशस्य समानधर्मरूपत्वे तु अरविन्दसुन्दरं वदनमित्यत्र लक्षणयारविन्दवृत्तिसमानधर्मः प्रतीयते । तस्य चाभेदेन सुन्दरपदार्थैकदेशेन सुन्दरत्वेनान्वयः । अरविन्दमिव सुन्दरमित्यत्रारविन्दपदार्थ आधेयतया संसर्गेण इवपदार्थेन समानधर्मेणान्वेति । शेषं प्राग्वत् । सौन्दर्येणारविन्देन सममित्यत्र सौन्दर्योत्तरतृतीयया धान्येन धनीत्यत्रेव अभेदार्थिकया अन्यया च निरूपितत्वार्थिकया मौन्दर्याभिन्नमरविन्दनिरूपितं यत्सादृश्यं तद्वदभिन्नमिति धीः । क्याचारो धर्ममात्रम् । तस्य चोपमानपदेन लक्षणयोपस्थितं तन्निरूपितसादृश्यं प्रयोजकतासंसर्गेणाभेदेन वा विशेषणम् । विशेष्यं चाश्रयतयोपमेयम् । क्यजथाचार श्वानुरूपक्रियादिरिति दिक् ।
अरविन्देत्यर्थः । सादृश्यस्य वेति । प्रतीतिरित्यस्यानुषङ्गः। पन्ने विति । तदापनधर्मके वित्यर्थः । सहोदरशब्दार्थमाह-सदृशेति । तादात्म्येति । अभेदेत्यर्थः । लक्ष्यान्तरमाह-कुङ्कुमालेपेति।साधारणत्वेति। सादृश्यमूलाभेदाध्यवसानेनेत्यादिः। कल्पनीयेति । यतिरित्यस्य यतिरिवेत्यर्थः । अन्यत्र अन्यशब्दप्रयोगादिति भावः । लक्षणयेत्यस्यार विन्दपदस्येत्यादिः । शेषमिति । तस्य चाभेदेनेत्यादीत्यर्थः । अन्यया चेति । अरविन्दपदोत्तरया चेत्यर्थः । एकदेशान्वयः प्राग्वदेवेत्याह-सादृश्यमिति । लुप्तास्थले बोधमाह-क्यङथैति। सादृश्यस्यातिरिक्तत्वे आह-प्रयोजकतेति । धर्मरूपत्वे आह-अभेदेति । विशेष्यमिति । अस्य चेत्यादिः । तत्र सादृश्ये । ननु
For Private And Personal Use Only