________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
यथा-- 'नितरां परुषा सरोजमाला न मणालानि विचारपेशलानि ।
यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्लवानाम् ॥'. अपरुषवर्णघटितत्वं सुकुमारता । यथा'स्वेदाम्बुसान्द्रकणशालिकपोलपालि
दोलायितश्रवणकुण्डलवन्दनीया। आनन्दमङ्कुरयति स्मरणेन कापि ___रम्या दशा मनसि मे मंदिरेक्षणायाः ॥'. अत्र पूर्वार्धे । उत्तरार्धे तु माधुर्यमपि । झगिति प्रतीयमानार्थान्वयकत्वमर्थव्यक्तिः। यथा 'नितराम्' इत्यादौ । कठिनवर्णघटनारूपविकटत्वलक्षणोदारता। यथा'प्रमोदभरतुन्दिलप्रमथदत्ततालावली
विनोदिनि विनायके डमरुडिण्डिमध्वानिनि । ललाटतटविस्फुटन्नवळपीटयोनिच्छटो
हठो तजटोद्भटो गतपटो नटो नृत्यति ॥' 'पदानां नृत्यत्प्रायत्वं विकटता' इति काव्यप्रकाशटीकाकारा व्याचक्षते । उदाहरन्ति च ‘स्वचरणविनिविष्टै पुरैर्नर्तकीनां झटिति रणितमासीत्' इत्यादि । तत्र तेषामेतादृशीं विकटत्वलक्षणामुदारतामोजस्यन्त - ग्राह्यः । स्पष्टं चेदमत्रैवाग्रे । पृथक्पदत्वम् । पदानि भिन्नान्यपेक्षितानि, न तु श्लेषवत् । विचारेति । अङ्गवन्मृणालानि न वेति विचारेऽपि समर्थानि नेत्यर्थः । अङ्गकानामित्यत्रानुकम्पायां कन् । दृष्टेति शेषः । नायिका प्रति नायकोक्तिः । स्वेदेति। नायकोक्तिः । श्रवणकुण्डलं कर्णताटङ्कः । अत्र स्मृत्युपष्टब्धशृङ्गारः पूर्वार्धे । अपरुषवर्णघटितत्वरूपा सुकुमारतेति शेषः । अपिनास्या अपि समुच्चयः । झगिति द्राक् । प्रतीयमानत्वमन्वयविशेषणम् । आकाङ्क्षा दिसकलकारंणसामग्रीसत्त्वादिति भावः । प्रमथा गणाः । डमरुडिण्डिमेति । डमरुढंकृति तन्वतीत्यर्थः । गतपटो दिगम्बरः । तत्रोक्तेऽर्थे । तेषां
For Private And Personal Use Only