________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२१३
द्वितीयो यथा-- 'पूर्णमसुरै रसातलममरैः स्वर्गों वसुंधरा च नरैः ।
रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव ॥ एवं पूर्णतया लुप्ततया चास्यापि यथासंभवं भेदा उन्नेयाः ।।
इति रसगङ्गाधरेऽसमालंकारप्रकरणम् । सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम् । __ अर्थान्तरन्यासवारणायोच्यमान इति वचनम् । वा-इव-यथा-निदर्शनदृष्टान्तादिशब्दैः काव्येषु स्फुटम् । न च इवयथाशब्दयोः सादृश्यवचनयोरवयवावयविभावे विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम् । लक्षणायाः साम्राज्यात् । अन्यथा ह्युत्प्रेक्षाबोधकतापि दुर्घटा स्यात् । उदाहरणम्'अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥' न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम् । तयोः सामान्यविशेषभावेन सादृश्यस्यानुल्लासात् । तथात्वे तु इवादिशब्दानामिव सदृशादिशब्दानामप्यलंकारेऽस्मिन्प्रयोगः स्यात् । यथा वा-- 'अतिमात्रबलेषु चापलं विदधानः कुमतिविनश्यति ।
त्रिपुरद्विपि वीरतां वहन्नवलिप्तः कुसुमायुधो यथा ॥' इति ध्वनिरयम् । नालंकारः । निरवति । निष्प्रसरेत्यर्थः । निराधारेति यावत् । एवं उक्तभेदवत् । अस्याप्यसमालंकारस्यापि ॥ इति रसगङ्गाधरमर्मप्रकाशेऽसमालंकारप्रकरणम् ॥
सुखेति । द्रुततरं बुद्ध्यारूढत्वाय । तयोः सामान्यैकदेशयोः । अवयवावयविभावस्वरूपमाह-विशेषेति । अन्यथा लक्षणानङ्गीकारे । अनुल्लासादिति । मिथो भेदाभा. वेन स्फुटमप्रतीतेरित्यर्थः । तथात्वे तु सादृश्योल्लासे तु । अस्योपपत्तिरग्रेऽत्रैव स्फुटीभविध्यति। इवयुतोदाहरणमुक्त्वा यथाघटितमुदाहरणमाह-यथा वेति । गुणति। कुत्सि
For Private And Personal Use Only