SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। २१७ अत्र तल्पनिद्रयोः स्मरणं यद्यपि न तल्पनिद्रासादृश्यदर्शनोबुद्धसंस्कारप्रयोज्यम्, तथापि सैन्यगतपयोधिसादृश्यदर्शनोबुद्धपयोधिविषयकसं. स्कारजन्यपयोधिस्मरणाधीनत्वाद्भवत्येव यत्किचित्सादृश्यदर्शनोबुद्धसंस्कारप्रयोज्यम् । नहि सादृश्ये स्मर्यमाणसंबन्धित्वं विवक्षितम् । एवं वाच्ययोस्तल्पनिद्रास्मरणयोरेतत्कारणतया आक्षिप्तस्य पयोधिस्मरणस्य चाविशेषेण संग्रहाय लक्षणे जन्यत्वमपहाय प्रयोज्यत्वमुपात्तम् । केचित्तु सदृशज्ञानोबुद्धसंस्कारजन्यं सदृशविषयकमेव स्मरणमलंकारः । भुजगेन्द्रनिद्रादिस्मृतिस्तु नालंकार इत्याहुः । 'इत एव निजालयं गताया वनिताया गुरुभिः समावृतायाः । परिवर्तितकंधरं नतभ्र स्मयमानं वदनाम्बुजं स्मरामि ॥' अत्र स्मरणं चिन्तोद्बुद्धसंस्कारप्रयोज्यत्वान्नालंकारः । व्यङ्गयत्वविरहाच्च न भावः । एवम्'दरानमत्कंधरबन्धमीपन्निमीलितस्निग्धविलोचनाब्जम् । अनल्पनिःश्वासभरालसाङ्गचाः स्मरामि सङ्गं चिरमङ्गनायाः ॥ इहापि स्मृतिन भावो नाप्यलंकारः । व्यङ्गयस्यैव व्यभिचारिणो भावत्वात् । यथा 'सा वै कलङ्कविधुरा मधुराननश्रीः' । अयं चालंकारिकाणां संप्रदायो यत्सादृश्यमूलकत्वे स्मरणं निदर्शनादिवदलंकारः । तस्याभावे व्यङ्ग्यतायां भावः । तयोरभावे तु वस्तुमात्रम् । वदलंकार इत्यर्थः । विवक्षितं लक्षणे इति शेषः । एवमिति । वैधर्म्य दृष्टान्त एतदिति । तल्पनिद्रास्मरणकारणतयेत्यर्थः । संग्रहाय एतल्लक्ष्यत्वाय । केचित्विति। अत्र मते जन्यत्वनिवेशसादृश्ये स्मर्यमाणसंबन्धिनिवेशश्चेति पूर्वतो भेदः । भुजगेन्द्रेति । एकसंबन्धीति न्यायेन तल्पादिस्मरणस्य पयोधिस्मरणजन्यत्वेऽपि तादृशसंस्कारजन्यत्वादसहशविषयकत्वाच्च पयोधिस्मरणं तु तथेति भवति स इति भावः । अत्रारुचिबीजं तु सादृश्ये स्मर्यमाणसंबन्धित्वनिवेशस्यैवं सति फलाभावः । नहि तादृशसंस्कारजन्यं स्मरणं विसदृशविषयकं संभवति । तथा पयोधिस्मरणस्य सदृशज्ञानत्वेन तेन तल्पादिस्मरणानुकलसंस्कारस्योद्बोधनसंभवेन तज्जन्यत्वसत्त्वादलंकारत्वमेव तस्येति । सादृश्यज्ञाननिवेशफलमाह-इत एवेति । गुरुभिः श्वश्वादिभिः । परिवर्तितेत्यादिद्वयं स्मयमानक्रियाविशेषणम् । इहापि इत्यत्रापि । ननक्तरीत्यानलंकारत्वेऽपि भावत्वं कुतो न । अव्यङ्ग्यत्वस्याप्रतिबन्धकत्वात् । अत आह-व्यङ्गयेति । तस्य सादृश्यमूलकत्वस्य । तामां २८ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy