________________
Shri Mahavir Jain Aradhana Kendra
२१८
www. kobatirth.org
यथा
काव्यमाला |
अप्पयदीक्षितास्तु
" स्मृतिः सादृश्यमूला या वस्त्वन्तरसमाश्रया । स्मरणालंकृतिः सा स्यादव्यङ्ग्यत्वविशेषिता ॥'
Acharya Shri Kailassagarsuri Gyanmandir
'अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्षीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥'
यथा वा
'दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्य श्रियमिव कांचिदुत्तरन्तीमस्मार्षीज्जलनिधिमन्थनस्य शौरिः ॥' एकत्र सदृशदर्शनात्तत्सदृशकर्मिका स्मृतिः । इतरत्र सदृशदर्शनातत्सदृशलक्ष्मीसंबन्धिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि साह - श्यमूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधारण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्थवत् ।
'सौमित्र ननु सेव्यतां तरुतलं चण्डांशुरुज्जृम्भते चण्डांशोर्निश का कंथा रघुपते चन्द्रोऽयमुन्मीलति । वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः
क्वासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥' अत्र श्रुतकुरङ्गसंबन्धिनस्तन्नयनस्य स्मरणात्तत्सदृशसीतानयनस्मृति
सता (?) । तयोव्यङ्गयत्वसादृश्यमूलकत्वयोः । अपीति । रघुवंशे दशरथमृगयावर्णनम् । स दशरथः । सादृश्यबोधकं केशपाशस्य विशेषणद्वयम् । दिव्यानामिति । माघे जलक्रीडावर्णनम् । अम्भस्तो जलात् । मन्थनस्येति 'अधीगर्थ -' इति कर्मणि शेषे षष्ठी । लक्ष्यद्वयदाने बीजमाह - एकत्रेति । आद्य इत्यर्थः । इतरत्र अन्त्ये । सदृशेति । ल. क्ष्मी सदृशनायिकेत्यर्थः । लक्षणं संगमयति- उभयत्रेति । तथा च द्वितीयलक्ष्यसंग्रह एव वस्त्वन्तरसमाश्रयेति विशेषणफलमित्याह - अत एवेति । द्वितीयस्य लक्ष्यत्वादेवे - त्यर्थः । सदृशासदृशेति । स्मृतेः सदृशासदृशान्यतरविषयकत्वलाभार्थतयेत्यर्थः । अव्यङ्गयत्वविशेषणफलमाह—- सौमित्रे इति । हनुमन्नाटके सीतावियोगे श्रीरामचन्द्रस्य लक्ष्मणं प्रत्युक्तिरियम् । ननु निश्चयेन । चण्डांशुः सूर्यः । तन्नयनेति । कुरङ्गनयने
For Private And Personal Use Only