________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। यावता त्वनौचित्येन रसस्य पुष्टिस्तावत्तु न वार्यते । रसप्रतिकूलस्यैव तस्य निषेध्यत्वात् । अत एव
'ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां
‘स्वल्पं जल्प बृहस्पते जडमते नैषा सभा वजिणः । वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो
सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लङ्केश्वरः ॥' इति कस्यचिन्नाटकस्य पद्ये विप्रलम्भशृङ्गारागीभूतवीररसाक्षेपकपरमैश्वर्यपरिपोषकतया स्थितदौवारिकवचनस्य ब्रह्माद्यधिक्षेपपरस्यानौचित्यं न दोषः । एवमेव 'अले ले सद्दः समुप्पाडिअहरियकुसग्गन्थिमयाच्छमालापइवित्तिविस्संभिअबालविहवंदःकअणा बह्मणा' इत्यादिविदूषकवचनेऽपि रेशब्दादिप्रयोगस्य तत्तथा । हास्यानुगुणत्वात् । एषा हि दिगुपदर्शिता । अनया सुधीभिरन्यदप्यूह्यम् । __रसेषु चैतेषु. निगदितेषु माधुर्योजःप्रसादाख्यास्त्रीन्गुणानाहुः । तत्र 'शङ्गारे संयोगाख्ये यन्माधुर्य ततोऽतिशयितं करुणे ताभ्यां विप्रलम्भे तेभ्योऽपि शान्ते । उत्तरोत्तरमतिशयितायाश्चित्तद्रुतेर्जननात्' इति केचित् । 'संयोगशृङ्गारात्करुणशान्तयोस्ताभ्यामपि विप्रलम्भे' इत्यपरे । संयोगशृङ्गारात्करुणविप्रलम्भशान्तेष्वतिशयितमेव न पुनस्तत्रापि तारतम्यम्' इत्यन्ये । तत्र प्रथमचरमयोर्मतयोः 'करुणे विप्रलम्भे तच्छान्ते यावतेति । तस्यानौचित्यस्य । अत एव पोषकस्य तस्यावार्यत्वादेव । न दोष इत्यत्रास्यान्वयः । ब्रह्मन्निति । रावणद्वारि समागतान्ब्रह्मादीन्प्रति दौवारिकस्येयमुक्तिः । बहिस्तृष्णी स्थीयताम् । बहुभाषित्वादेव जडमतित्वम् । स्तुतीत्याद्युत्तरान्वयि । सीताया रलकः सीमन्तसरणिरेव भल्लो बाणस्तेन भग्नं हृदयं यस्य सः । 'शिरःसिन्दूरसरणिः स्त्रीणामारल्लकं स्मृतम्' इति हलायुधः । विप्रलम्भेति । सीताविषयेत्यादिः । उदाहरणान्तरमाह-एवमेवेति । तत्तथेत्यत्रान्वयः । अले ले इति । 'अरे रे सद्यः समुत्पा. टितहरितकुशग्रन्थिमयाक्षमालापरिवृत्तिविलम्भितबालविधवान्तःकरणा ब्राह्मणाः' इत्यादि प्राकृतार्थः । तदनौचित्यं तथा न दुष्टम् । हास्यान्विति । तत्पोषकत्वादित्यर्थः । नेदं परिगणनम्, किं-तूपलक्षणमित्याह-एषेति । दिग्रीतिः । अनया दिशा। निरतीति । नितरामतिशयितमित्यर्थः । तत्रापि करुणविप्रलम्भशान्तेष्वपि । तन्माधुर्यम् । नन्वेक
For Private And Personal Use Only