________________
Shri Mahavir Jain Aradhana Kendra
९०
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
यथा
'अवाप्य भङ्गं खलु संगराङ्गणे नितान्तमङ्गाधिपतेरमङ्गलम् । परप्रभावं मम गाण्डिवं धनुर्विनिन्दतस्ते हृदयं न कम्पते ॥' एषा कर्णेन पराभूतं गाण्डिवं निन्दन्तं युधिष्ठिरं प्रति धनंजयस्योक्तिः । युधिष्ठिरकर्तृका गाण्डिवनिन्दात्र विभावः । वधेच्छानुभावः । न चामर्षोग्रतयोर्नास्ति भेद इति वाच्यम् । प्रागुदाहृतेऽमर्षध्वनावुग्रताया अप्रतीतेः । नाप्यसौ क्रोधः । तत्र स्थापित्वेनास्याः संचारिणीत्वेनैव भेदात् । विमलम्भमहापत्तिपरमानन्दादिजन्मान्यस्मिन्नन्यावभास उन्मादः । शुक्तिरजतादिज्ञानव्यावृत्तये जन्मान्तम् ।
उदाहरणम्
'अकरुणहृदय प्रियतम मुञ्चामि त्वामितः परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा ॥'
एषा प्रवासगतं स्वनायिकावृत्तान्तं पृच्छन्तं नायकं प्रति कस्याश्चित्संदेशहारिण्या उक्तिः । प्रियविरहोत्र विभावः । असंबद्धोक्तिरनुभावः । उन्मादस्य व्याधावन्तर्भावे संभवत्यपि पृथगुपादानं व्याध्यन्तरापेक्षया वैचित्र्यविशेषस्फोरणाय ।
रोगादिजन्या मूर्छारूपा मरणप्रागवस्था मरणम् ।
न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम् । चित्तवृत्त्या - त्मकेषु भावेषु तस्याप्रसक्तेः । भावेषु च सर्वेषु कार्यसहवर्तितया शरीरप्रासंयोगस्य हेतुत्वात् ।
अविद्यमानदोषकथनमित्यर्थः । अङ्गाधिपतेः कर्णात् । परेति । उत्कृष्टेत्यर्थः । पराभूतमिति युधिष्ठिर विशेषणम् । न चामर्षोथेति । कारणाधिक्यादिति भावः । अप्र तीतेरिति । अस्यां वधादीच्छापि न । तस्मिन्नित्यनुभावभेदादिति भावः । असावुग्रता । भेदादिति । गुरुबन्धुवधादिजन्यः स्थायी, वागपराधादिजन्यः संचारीति भेद इत्यपरे । व्यावृत्तय इति । ज्ञानस्योन्मादलव्यावृत्तय इत्यर्थः । तस्याप्रसक्तेरिति । मुख्यमरणस्यान्तर्भावासंभवादित्यर्थः । तत्र हेतुमाह - भावेषु चेति । अङ्गीकुरुते
For Private And Personal Use Only