SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। वृत्तिरप्यत्र महोद्धता रौद्रस्य परमौजस्वितां परिपुष्णाति । अन्यत्र गुरुस्मरणे सत्यहंभावविगमस्यावश्यकतया प्रकृते चाजहत्स्वार्थलक्षणामूलध्वननेन मदीयेत्यनेन गर्वोत्कर्षस्यैव प्रकाशनात्स्फुटं गम्यमानेन विवेकशून्यत्वेन क्रोधस्याधिक्यं गम्यते । इदं तु नोदाहार्यम्'धनुर्विदलनध्वनिश्रवणतत्क्षणाविर्भव न्महागुरुवधस्मृतिः श्वसनवेगधूताधरः । विलोचनविनिःसरद्बहलविस्फुलिङ्गव्रजो ___रघुप्रवरमाक्षिपञ्जयति जामदग्न्यो मुनिः ॥' । अत्राप्यपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलनध्वनिश्रवणेनोद्दीपितो निःश्वासनेत्रज्वलनादिभिरनुभावितो महागुरुवधस्मृतिगर्वोग्रत्वादिभिश्च संचारितः क्रोधो यद्यपि व्यज्यते, तथाप्यसौ तत्प्रभाववर्णनबीजभूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः । काव्यप्रकाशगतरौद्ररसोदाहरणे तु 'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्' इति पद्ये रौद्ररसव्यञ्जनक्षमा नास्ति वृत्तिः, अतस्तत्कवेरशक्तिरेव । वीरश्चतुर्धा । दानदयायुद्धधर्मेस्तदुपाधेरुत्साहस्य चतुर्विधत्वात् । तत्राद्यो यथा'कियदिदमधिकं मे यहिजायार्थयित्रे कवचमरमणीयं कुण्डले चार्पयामि । अकरुणमवकृत्य द्वाकृपाणेन निर्य दहलरुधिरधारं मौलिमावेदयामि ॥' एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तदानवि र्थमाह-गुर्विति । धनुरित्यस्य श्रीरामकृतशिवेत्यादिः । अन्यत्र क्रोधाभावे । लक्षणोत । लक्ष्यतावच्छेदकं चैकविंशतिवारनिःक्षत्रियवसुमतीकारकत्वम् । पित्राज्ञया मातृवधकारित्वं वा । तत्प्रभावेति । जामदग्न्यप्रभावेत्यर्थः । निर्यनिःसरत् । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy