SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तत्र शृङ्गारो द्विविधः । संयोगो विप्रलम्भश्च । रतेः संयोगकालावच्छिन्नत्वे प्रथमः | वियोगकालावच्छिन्नत्वे द्वितीयः । संयोगश्च न दंपत्योः सामानाधिकरण्यम् । एकतल्पशयनेऽपादिसद्भावे विप्रलम्भस्यैव वर्णनात् । एवं वियोगोऽपि न वैयधिकरण्यम् । दोषस्योक्तत्वात् । तस्माहाविमौ संयोगवियोगाख्यावन्तःकरणत्तिविशेषौ । यत्संयुक्तो वियुक्तवास्मीति धीः । तत्राद्यो यथा 'शयिता सविधेऽप्यनीश्वरा' (१० पृष्ठे) इत्यत्र निरूपितः। __यत्तु चित्रमीमांसायाम—'वागर्थाविव संप्टक्तो, इत्यत्र रसध्वनिः । निरतिशयप्रेमशालिताव्यञ्जनात्' तइनिमार्गानाकलननिबन्धनम् । पार्वतीपरमेश्वरविषयककविरतौ प्रधाने निरतिशयप्रेम्णो गुणीभावात् । न हि गुणीभूतस्य रत्यादे रसध्वनिव्यपदेशहेतुत्वं युक्तम् । 'भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः' इति सिद्धान्तात् । द्वितीयो यथा'वाचो माङ्गलिकीः प्रयाणसमये जल्पत्यनल्पं जने केलीमन्दिरमारुतायनमुखे विन्यस्तवक्त्राम्बुजा । निःश्वासग्लपिताधरोपरिपतद्वाष्पावक्षोरुहा - बाला लोलविलोचना शिव शिव प्राणेशमालोकते ॥' अत्राप्यालम्बनस्य नायकस्य, निःश्वासाश्रुपातादेरनुभावस्य, विषादचिन्तावेगादेश्च व्यभिचारिणः, संयोगादतिरभिव्यज्यमाना वियोगकालावच्छिन्नत्वाद्विप्रलम्भरसव्यपदेशहेतुः । यथा वा 'आविर्भूता यदवधि मधुस्यन्दिनी नन्दसूनोः ___ कान्तिः काचिन्निखिलनयनाकर्षणे कार्मणज्ञा । कृत् । उक्तन्यायेन वीरादिष्वपि बोध्यमित्याह-एवमिति । एकतल्पेति । एकल. टायां निद्रायामपीत्यर्थः । एवमित्यस्यार्थमाह-दोषेति । ईर्ष्याद्यभावे वैयधिकरण्येऽपि संभोगस्यैव वर्णनादित्यर्थः । यद्यस्मात् । तत्रायः शयितेति पाठः । यथेति पाठे तथेति शेषः । माङ्गलिकीमङ्गलफलकाः । मारुतेति । गवाक्षविवर इत्यर्थः । निःश्वासैर्लपितो For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy