________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
काव्यमाला। सादृश्याभिन्नं वा वेदनाहरणकर्तृत्वं विधेयमित्युपमाविधेयिका धीः । धर्मलुप्तायां तु वारिधरसादृश्यावच्छिन्नवृष्णिवरेण्यमुद्दिश्य वेदनाहरणकर्तृत्वमात्रं विधेयमित्युपमोद्देश्यतावच्छेदिका । धर्मलुप्ता आर्थी वाक्यगता यथा
'कोपेऽपि वदनं तन्वि तुल्यं कोकनदेन ते ।
उत्तमानां विकारेऽपि नापैति रमणीयता ।' धर्मलुप्ता समासगा श्रोत्यार्थी तद्धितगार्थी च यथा-- 'सुधेव वाणी वसुधेव मूर्तिः सुधाकरश्रीसदृशी च कीर्तिः ।
पयोधिकल्पा मतिरासफेन्दोमहीतलेऽन्यस्य नहीति मन्ये ॥' ईषदसमाप्तिरपि भङ्गयन्तरेण सादृश्यमेव ।
वाचकलुप्ता समासगा-'दरदलदरविन्दसुन्दरं' इति प्रागुदाहृते पद्ये। कर्माधारक्यज्गता क्यङ्गता च यथा--
'मलयानिलमनलीयति मणिभवने काननीयति क्षणतः।
विरहेण विकलहृदया निर्जलमीनायते महिला ॥' अत्रानलमिवाचरतीत्यर्थेऽनलशब्दात् 'उपमानादाचारे' इति सूत्रेण, कानन इवाचरतीत्यर्थे काननशब्दाच्च तत्सूत्रस्थेन 'अधिकरणाच' इति वार्तिकेन क्यच् । निर्जलमीनशब्दाच 'कर्तुः क्यङ् सलोपश्च' इति क्यङ् । आचारमात्रार्थकतया क्यच्क्यडोः प्रकृत्यैव लक्षणया स्वस्वार्थसादृश्यप्रतिपत्तिरिति नये सादृश्यवाचकाभावाद्वाचकलुप्ता । अनलीयतीत्यादिसमदायस्यैवानलादिसादृश्यप्रयोजकाचरणकर्तृशक्तत्वमिति नयेऽपि सादृश्यसादृश्यविशिष्टान्यतरमात्रवाचकाभावाद्वाचकलुप्ता ।। ताशेति । प्रावृषेण्येत्यर्थः । अवच्छेदिकेत्यस्येतीति शेषः । सादृश्यमेवेति । तथा च तद्विशिष्टार्थप्रतिपादकत्वादार्थी । कर्माधारेति । वाचकलुप्तेत्यादिः । नन्वेवमाचारवत्सादृश्यस्यापि क्यजादिना बोधनात्कथं वाचकलुप्तात्वमत आह-आचारोति । साहश्यवाचकाभावादिति । शक्त्येति भावः । ननु नेदं युक्तम् । अत्र मते इवादीनां द्योतक. तानये सर्वत्रैव वाचकाभावाद्वाचकलुप्तात्वापत्तेः । चन्द्रप्रतिपक्षमाननमित्यत्रापि वाचक. लुप्तात्वापत्तेश्च । तत्र हि प्रतिपक्षपदेन सादृश्यं लक्ष्यमेव । तस्मात्सादृश्यसादृश्यविशिष्टान्यतरमात्रबोधकाभाव एव वाचकलोप इति तत्त्वम् । अत आह-अनलीयतीत्या.
१. नवाब आसफखान इति नाम्ना प्रसिद्धस्य.
For Private And Personal Use Only