________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२१९
दिना संशयधर्मी किरणवातोऽध्यवसीयत इति । अत्र विचार्यते -- सिन्दूरैः परिपूरितं किमथवेति यद्येतावत्सिन्दूरादिकरणकपरिपूरितत्वादिकोटिको जगन्मण्डलधर्मिकः संशयः शब्दात्प्रतीयते तस्मिश्च संशये किमिदं सिन्दूररजो वा स्यात्, आहोस्विलाक्षारसः, उताहो कुङ्कुमद्रव इति सूर्यकिरणधर्मिकं संशयान्तरमानुगुण्यमाधत्ते । यथा पुरोवर्तिनि तुरगे स्थाणुर्वा पुरुषो वेति संशयो भूतलमिदं स्थाणुमत्पुरुषवद्वेति संशये । एवं च सूर्यकिरधर्मिकः संशयो गुणीभूतो व्यञ्जनागम्यत्वाद्विषयविषयिणोरारोपानुकूलविभक्तिकतां नापेक्षते । अपेक्षते च साक्षाच्छब्दवेद्यतायामिति कुत्राध्यवसानमूलता संशयस्य । एतेनाध्यवसानमूलतां संशयस्य निरूपयतो विमर्शिनीकारस्योक्तिरपास्ता ।
अप्पदीक्षितास्तु
'अस्याः सर्गविधौः प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः - || ' इत्यत्र चन्द्रादीनां संदेहधर्मिणामेवानेकत्वम् । प्रकारस्तु वर्णनीयवनितास्रष्टृत्वमेकमेवेत्यनेक कोटिकत्वाभावाद्विरोधेन परस्पर प्रतिक्षेपकतया निबद्धानेक कोट्यवगाहित्वरूपस्य संशयलक्षणस्याव्याप्तिमाहुः । तन्न । अत्र हि अस्याः सर्गविधौ यः प्रजापतिरभूत्स किं नु चन्द्रः, किं नु मदनः, किं वा नु वसन्त इति संशयः प्रजापतिधर्मिकश्चन्द्रत्वादिनानाकोटिक एवेति कुत्राव्याप्तिः । न चात्र चन्द्रादिधर्मिकः संशयो युक्तो वक्म् । एवं च प्रजापतेः प्रथमोद्देशो न स्यात् । यदपि 'साम्यादप्रकृ
इति । तावदादौ । इदं किरणजातम् । अनपेक्षत्वे हेतुमाह – व्यञ्जनेति । तर्हि कुत्र तदपेक्षा तत्राह — अपेक्षते चेति । एवं च रूपकमूल एवायमित्यध्यवसानमूलः संशयः खपुष्पायमाण इति भावः । तदाह – कुत्रेति । अस्या इति । मालतीमाधवे मालतीवर्णन मिदम् । मासो वसन्तः । वनितास्रष्टृत्वं प्रजापतिशब्दबोध्यम् । अभावादित्यव्याप्तौ हेतुः । संशयलक्षणमाह - विरोधेनेति । हि यतः अस्या मालत्याः । तदुपपादनं खण्डयति - न चात्रेति । एवं चेति । चो ह्यर्थे । यत एवं सतीत्यर्थः । विधेयस्य पाश्चा१. विक्रमोर्वशीये प्रथमेऽङ्के उर्वशीवर्णनमिदम्.
For Private And Personal Use Only