________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । तस्यापि तथा वक्तुं शक्यत्वात् । काव्यजीवितं चमत्कारित्वं चावशिष्टमेव । गुणत्वालंकारत्वादेरननुगमाच्च । दुष्टं काव्यमिति व्यवहारस्य बाधकं विना लाक्षणिकत्वायोगाच्च । न च संयोगाभाववान्वृक्षः संयोगीतिवदंशभेदेन दोषरहितं दुष्टमिति व्यवहारे बाधकं नास्तीति वाच्यम् । 'मूले महीरुहो विहंगमसंयोगी न शाखायाम्' इति प्रतीतेरिवेदं पद्यं पूर्वार्धे काव्यमुत्तरार्धे तु न काव्यमिति स्वरसवाहिनो विश्वजनीनानुभवस्य विरहादव्याप्यवृत्तिताया अपि तस्यायोगात् । शौर्यादिवदात्मधर्माणां गुणानाम्, हारादिवदुपस्कारकाणामलंकाराणां च शरीरघटकत्वानुपपत्तेश्च । यत्तु 'रसवदेव काव्यम्' इति साहित्यदर्पणे निर्णीतम्, तन्न ! वस्त्वलंकारप्रधानानां काव्यानामकाव्यत्वापत्तेः । न चेष्टापत्तिः । महाकविसंप्रदायस्याकुलीभावप्रसङ्गात् । तथा च जलप्रवाहवेगनिपतनोत्पतनभ्रमणानि कविभिर्वर्णितानि । कपिबालादिविलसितानि च । न च तत्रापि यथाकथंचित्परम्परया रसस्पर्शोऽस्त्येवेति वाच्यम् । ईदृशरसस्पर्शस्य 'गौश्चलति', ननु विलक्षणचमत्कारित्वं तत्रैवेति नोक्तदोषोऽत आह-गुणत्वेति । ननु काव्यधर्मत्वं रसधर्मत्वं वा गुणत्वम्, काव्यशोभाधायकत्वं काव्यधर्मलं वालंकारत्वमित्यनुगम एवेति चेत्सत्यम् । तथापि गुणालंकारादीत्यादिपदेनादोषाविति विशेषणमयुक्तमित्यभिमतम् । युक्तं चैतत् । दोषसामान्याभावनिवेशे काव्यव्यवहारस्य विरलविषयतापत्तेः । इदं काव्यं दुष्टमिति व्यवहारानापत्तेश्च । न चादोषपदेन स्फुटदोषराहित्यं विवक्षितम् । स्फुटत्वं च शाब्दबोधप्रतिबन्धकत्वम् । तेन निराकाङ्कत्वानासन्नत्वे गृह्यते । अन्यथा रसादिदोषाणां त्यागे बीजानापत्तिः । नह्यदोषौ शब्दार्थावित्युक्ते रसादिदोषाभावः प्रतीयत इति वाच्यम् । अर्थशब्देन रसस्यापि ग्रहादिति भावः । तदाहदुष्टकाव्यमितीति । एवं च तेषामपि मते तादृशकाव्यलक्षणेऽदोषाविति मात्रस्यानिवेश इति बोध्यम् । स्वरसेति । स्वारसिकस्येत्यर्थः । विश्वेति । सर्वजनीनेत्यर्थः । अपिः प्रागुक्तरीतिसमुच्चायकः । ननु सामान्यलक्षणस्यादोषपदाघटितत्वात्तथा व्यवहा. रोपपत्तिरत आह-शौर्यादीति । उत्कर्षाधायकत्वेन साम्यत्वम् । एवं च विशेषलक्षणे तेषां निवेशेऽपि सामान्यलक्षणे तेषां न निवेश इति न कोऽपि दोष इति भावः । वस्त्विति । प्रधानपदस्योभयत्रान्वयः । आकुलीति। उच्छेदेत्यर्थः । संप्रदायमेवाह-तथा चेति । विलसितानि चेति । वर्णितानीत्यस्यानुषङ्गः । न च तत्र रसो. ऽस्तीति भावः । यथाकथंचिदित्यस्यैव व्याख्या परम्परयेति । परम्परामेवाह-अथेति । - सर्वस्यार्थस्येत्यर्थः ।
For Private And Personal Use Only