SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसगङ्गाधरः। ३६७ अथ समासोक्तिः यत्र प्रस्तुतर्मिको व्यवहारः साधारणविशेषणमात्रोपस्थापिताप्रस्तुतर्मिकन्यवहाराभेदेन भासते सा समासोक्तिः।। साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतधर्मिकव्यवहाराभिन्नत्वेन भासमानप्रकृतर्मिकव्यवहारत्वमिति चैकोक्तिः । शब्दशक्तिमूलध्वनि वारणाय मात्रेति । तत्र विशेप्यस्यापि श्लिष्टतया प्रकृतेतरधर्म्युपस्थापनद्वारा तादृशधर्मिकव्यवहारोपस्थापकत्वात् । एवमपि 'आबध्नास्यलकान्निरस्यसि तमां चोलं रसाकाङ्क्षया लङ्कायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम् । प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमत्यद्भुतम् ॥ इत्यत्र प्रकृतधर्मिकप्रकृताप्रकृतव्यवहारविषयके श्लेषेऽतिव्याप्तेर्वारणाय प्रस्तुताप्रस्तुतत्वे धर्मिविशेषणतयोपात्ते । व्यवहारविशेषणत्वेन तयोरुपादाने तु साधारणविशेषणमात्रश्रुत्युपस्थापिताप्रकृतशृङ्गारटत्तान्ताभिन्नत्वेन स्थित एवात्र प्रकृतो वीरवृत्तान्त इति स्यादेवातिप्रसङ्गः । न चात्र राज्ञो वर्णनस्य प्रस्तुतत्वात्तद्गतयोईयोरपि वृत्तान्तयोः प्रस्तुतत्वमिति कथमतिप्रसङ्ग इति वाच्यम् । न स्यादतिप्रसङ्गः, यदि वर्णनमात्रं प्रस्तुतं स्यात् । तत्सङ्ग्रामादौ वीरतामात्रवर्णनप्रस्तावे तु स्यादेवातिप्रसङ्गः । 'मलिनेऽपि रागपूर्णा विकसितवदनामनल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसां भ्रमर कथं वा सरोजिनीं त्यजसि ॥' समासोक्ति निरूपयति-अथेति । वाक्येनोक्तमर्थ सामस्त्येनाह–साधारणेति । मात्रपददानफलमाह-शब्दति। तत्र शब्दशक्तिमूलध्वनौ। अपिना विशेषणसमुच्चयः । तादृशेति । अप्रकृतेत्यर्थः । अलकाः केशाः, अलका कुबेरपुरी । चोल: कञ्चकः, देशश्च । रसाकाइयेति पूर्वान्वयि । रसः शृङ्गारः, वीरश्च । अलं कायस्यावशताम्, लङ्काया वशतां च । जवाललाटसमाहारक्षतम्, जङ्घाल-लाटदेशयो शं चेत्यर्थः । अहो इत्याश्चर्ये । हे नृपेन्द्र, भवतः परिमर्द निर्दयं चतः प्रत्यङ्गं प्रत्यवयवं अङ्गमङ्गदेशं च समालम्बते । वामानां सुन्दरोणाम्, वक्राणां शत्रूणां च । प्रकृतति । राजेत्यर्थः । तयोः प्रस्तुतत्वाप्रस्तुतत्वयोः । तत्सङ्ग्रामादौ राजसङ्ग्रामादौ । मात्रवर्णनेति । वर्णनमात्रेत्यर्थः । क्वचित्तथैव पाठः । मलिनपीत्यादिसप्तम्यन्तानि लयीत्यस्य विशेषणानि । उपात्तत्वं विशेष्ये अन्वे. For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy