________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
७२
काव्यमाला ।
झय्यघटितसंयोगस्य सकृत्प्रयोगो यथा -
'अयि मन्दस्मितमधुरं वदनं तन्वङ्गि यदि मनाक्कुरुषे । अधुनैव कलय शमितं राकारमणस्य हन्त साम्राज्यम् ॥'
नन्वत्र ककारद्वयसंयोगस्य हल्घटितस्वात्मसंयोगत्वेनैव निषेधात्कखसंयोगस्य महाप्राणसंयोगनिषेधविषयत्वात्ततीयसंयोगस्य चासंभवात्सवर्णझय्द्वयसंयोगनिषेधो निरवकाश इति चेत् । न । सकृत्प्रयोगविषयत्वेनास्य पार्थक्यात् । अन्यथा मनाकुरुष इति निर्दोषं स्यात् ।
महाप्राणघटितसंयोगो यथा -
'अयि मृगमदबिन्दु चेद्भाले बाले समातनुषे ।' उत्तरार्धे तु प्राचीनमेव ।
Acharya Shri Kailassagarsuri Gyanmandir
एवं त्वप्रत्ययं यङन्तानि यङ्लुगन्तान्यन्यानि च शाब्दिकप्रियाण्यपि मधुररसे न प्रयुञ्जीत । एवं व्यङ्ग्यचर्वणातिरिक्तयोजनाविशेषापेक्षानापाततोऽधिकचमत्कारिणोऽनुप्रासनिचयान्यमकादींश्र संभवतोऽपि कविर्न निबभीयात् । यतो हि ते रसचर्वणायामनन्तर्भवन्तः सहृदयहृदयं स्वाभिमुखं विदधाना रसपराङ्मुखं विदधीरन् । विप्रलम्भे तु सुतराम् । यतो मधुरतमत्वेनास्य निर्मलसितानिर्मितपानकरसस्येव तनीयानपि स्वातन्त्र्यमावह पदार्थः सहृदयहृदयारुंतुदतया न सर्वथैव सामानाधिकरण्यमर्हति ।
यदाहु:
'ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ||'
1
मिति । अधुना द्वितीयेऽह्नि । अयीति । अयि तन्वङ्गि, यदि वदनं मनाक् मन्दस्मितमधुरं कुरुषे तर्हि अधुनैव । न तु कालान्तरे । हन्तेति हर्षे । चन्द्रस्य साम्राज्यं शमितं कलय | जानोहीत्यर्थः । कखेति । खादिधातुपाठे इति भावः । व्यङ्गयेति । व्ययास्वादान्यो यो योजनाविशेषः । पदार्थानां तदपेक्षा नेत्यर्थः । यतो हीति । निपातसमुदायो हेतौ । सुतरामिति । पूर्वोक्तसर्वानुषङ्गः । तनीयानपि पदार्थोः रजःकणः - पदार्थैकदेशश्च स्वातन्त्र्यं स्वाभिमुखत्वं कुर्वन्नित्यर्थः । निबन्धनं शक्तावपि प्रमादित्वरूपं
For Private And Personal Use Only