________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४
काव्यमाला। धर्मलोपरहितायामुपमायां धर्मवाचकशब्दप्रतिपाद्यैः प्रार्थना । भूतभविष्यद्वर्तमानत्वादिभिर्विशेषणैर्विशिष्टधर्मस्योपमानोपमेयसाधारण्याभावे प्रयोजकाभावान्नोपमानिष्पत्तिरिति निर्विवादम् । तत्र विधेयत्वानुवाद्यत्वाभ्यां शब्देनानिवेदिताभ्यां विषयताभ्यां विशिष्टस्य धर्मस्य यदि नास्ति साधारण्यं मास्तु नाम । नादासीनैर्विशेषणैर्विशिष्टस्य धर्मस्य साधारण्यमपेक्षितम् । अपि तु धर्मवाचकशब्दनिवेदितैः । एवं चन्द्रवत्सुन्दरं मुखमित्यत्रापि सुन्दरत्वस्योपमानेऽनुवाद्यत्वे उपमेये च विधेयत्वेऽपि न साधारण्यहानिः । ननु
'नीलाञ्चलेन संततमाननमाभाति हरिणनयनायाः ।
प्रतिबिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥' इत्यत्रोपमाने चन्द्रे योगमर्यादया भासमान एणरूपोऽङ्क आननरूपोपमेयविशेषणस्वबिम्बाभावात्कस्य प्रतिबिम्बः स्यात् । अत आधिक्यापा. दकतया दोषः । न च हरिणनयनसदृशस्य नयनस्योपादानात्तस्यैव बिम्बस्य प्रतिबिम्बः स्यादिति वाच्यम् । तादृशनयनस्य बहुव्रीद्यर्थकान्ताविशेषणतया आननाविशेषणत्वेन बिम्बत्वाभावादिति चेत्, मैवम् । शब्देनाननविशेषणत्वेन तादृशनयनस्याप्रतिपादनेऽपि कान्ताविशेषणत्वेनैवाननवृत्तित्वस्यापि प्रतिपत्तेः । नह्याननमविषयीकृत्य कान्तां विशेष्टमीष्टे नयनम् । अनुभवविरोधात् । तथापि समभिव्याहारविशेषमापन्नेन शब्देनाप्रतिपादयत्वमिति भावः । प्राच॑मानताया इवेत्यस्य प्रार्थ्यमानतातदभावयोरित्यर्थः । साधारण्याभावे सतीति शेषः । प्रयोजकेति । सादृश्यप्रयोजकसाधारणधर्माभावा दित्यर्थः । तत्र तस्यामुपमायाम् । उदासीनैः शब्दाप्रतिपाद्यैः । प्रसिद्धोदाहरणेऽप्येवमेवेत्याह-एवंमिति । तथा च तत्कृतभेदेऽपि तस्यानपेक्षितस्य तत्त्वसत्त्वालडन्तपाठे न दोष इत्युक्तं युक्तमेवेति भावः । प्रतीति । यमुनागभीरजलमध्ये प्रतिबिम्बितश्चन्द्र इवेत्यर्थः । योगेति । बहुव्रीहीत्यर्थः । स्वेति । अङ्केत्यर्थः । तादृशेति । हरिणनयनसदृशेत्यर्थः । एवमग्रेऽपि । ईष्टे इति । नयनस्याननमात्रसंबन्धित्वादिति भावः । तदाह-अनुभवेति । शङ्कते-तथापीति । तत्तित्वस्यार्थिकप्रतिपत्तावपीत्यर्थः । समभीति। नेयनरूपेत्यर्थः । शब्देन हरिणनयनशब्देन । अप्रतीति । नयने आननवृत्तित्वस्ये. त्यादिः । विषयता त्रिविधा-प्रकारता, विशेष्यता, सांसर्गिकी च । तत्राद्ययोरभावे
For Private And Personal Use Only