SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ३७८ काव्यमाला | 'अन्धेन पातभीत्या संचरता विषमविषयेषु । दहि मया गृहीता हिमगिरिशृङ्गादुपागता गङ्गा ॥ ' अत्र गिरिशृङ्गप्रभववेणुयष्टिव्यवहाराभेदेन । कार्यसाधारण्येन यथा 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥' कार्यधर्मान्तरयोः संकरेण साधारण्यं यथा— ‘उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यक्कृताः Acharya Shri Kailassagarsuri Gyanmandir पादाम्भोजयुगं रुषा परिहृता दुरेण चेलाञ्चलम् | गृहन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरुहाः ॥ अत्र कण्टकचितत्वेन कबरीग्रहणादि संकीर्णम् । समासोक्तौ व्यज्य मानस्याप्रकृतव्यवहारस्योपस्कारकत्वमेव, न प्राधान्यम् । तदुपस्कृतवाच्यस्यैव तु प्राधान्यमित्युक्तम् । तत्र यदि व्यङ्ग्यस्यैव प्राधान्यं स्यात् न वाच्यस्य तदा 'देव त्वां परितः स्तुवन्तु -' इति प्रागुदाहृतपद्ये निदाव्याजेन स्तुतौ पर्यवसानं न स्यात् । स्तुतिनिन्दयोः प्रकृताप्रकृतव्यवहाराश्रयत्वादिति ध्येयम् । यत्तु इदानीमेव खण्डितोऽधरो येनेत्यर्थः । अन्धेन चक्षुनेन अज्ञानिना च । पातः पतनं नरकपातश्च । विषयेषु देशेषु नायिकादिषु च । दृट्टमिति क्रियाविशेषणम् । व्यवहाराभेदेनेति । गङ्गावृत्तान्तः स्थित इति भावः । कार्येति । कार्यरूपधर्मकृतशुद्ध साधारण्येनेत्यर्थः । देवेति । राजानं प्रति कव्युक्तिः । भवितासि । अपि तु न । दुराचारसंबन्धित्वात् । तदेवाह - यस्येति । 'न ना कोडो भुजान्तरम्' । आशा दिशः । अगम्यामपि अमरावतीमपीत्यर्थः । उत्क्षिप्ता इति । ऊर्ध्व क्षिप्ता इत्यर्थः । विवलिता वत्रीकृताः । न्यकृता अधः कृताः । के के न गृह्णन्ति । अपि तु सवैऽपीत्यर्थः । अत्र कण्टकचितत्वं कार्याऽन्यधर्मः । रोमाञ्श्वव्याप्तत्वं कण्टकयुतत्वं च तस्यार्थः । कबर्यादिग्रहणं कार्यरूपो धर्मः । तस्यैव प्रतिपाद्यत्वात् । आदिना पार्श्वद्वयग्रहणादिसंग्रहः । एवं पूर्वोदाहरणेष्वपि यथायथं बोध्यम् । तत्र तयोर्मध्ये । तत्र तद्वयवहारप्रतीतौ । अ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy