________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
यत्र व्यङ्गयमप्रधानमेव सच्चमत्कारकारणं तद्वितीयम् । वाच्यापेक्षया प्रधानीभूतं व्यङ्गयान्तरमादाय गुणीभूतं व्यङ्गयमादायातिव्याप्तिवारणायावधारणम् । तेन तस्य ध्वनित्वमेव । लीनव्यङ्ग्यवाच्यचित्रातिप्रसङ्गवारणाय चमत्कारेत्यादि । यत्तु 'अतादशि गुणीभूतव्यनयम्' इत्यादि काव्यप्रकाशगतलक्षणे चित्रान्यत्वं टीकाकारैर्दत्तं तन्न । पर्यायोक्तसमासोक्त्यादि प्रधानकाव्येष्वव्याप्त्यापत्तेः । तेषां गुणीभूतव्यङ्गतायाचित्रतायाश्च सर्वालंकारिकसंमतत्वात् । उदाहरणम्'राघवविरहज्वालासंतापितसह्यशैलशिखरेषु ।
शिशिरे सुखं शयानाः कपयः कुप्यन्ति पवनतनयाय ॥' अत्र जानकीकुशलावेदनेन राघवः शिशिरीकृत इति व्यङ्ग्यमाकस्मिककणिकर्तृकहनूमद्विषयककोपोपपादकतया गुणीभूतमपि दुर्दैववशतो दास्यमनुभवद्राजकलत्रमिव कामपि कमनीयतामावहति । नन्वेवं प्रागुक्तमाक्षेपगतं मान्द्यमपि नववधूप्रकृतिविरोधादनुपपद्यमानं व्यङ्गयेनैवोपपाद्यत इति कथमुत्तमोत्तमता तस्य काव्यस्येति चेत् । न । यतो ह्यनुदिनसख्युपदेशादिभिरनतिचमत्कारिभिरप्युपपद्यमानं मान्द्यमिदं प्रथमचित्तचुम्बिनी
तदभिप्रायेणोच्यते स्थित: पर्यवस्यतीति चेति । स्वापेति। स्वं नायिका । दूतीसंभोगादिरूपं यद्धीनकर्मेत्यर्थः । एतेनेत्यस्यार्थमाह-विदेति । तदपेति । इत्युपेत्यर्थः । अतितमामत्यन्तम् । प्राचीति । दूतीसंप्रेषणादित्यादिः। अन्यथा वैदग्ध्यादिभङ्गापत्तिः । दोषान्तरमपि प्रागुक्तं तदाह-दिगिति । द्वितीयमुत्तमम् । वाच्येति । वाच्यार्थतः प्रधानमन्यव्यङ्गयादप्रधानं यद्ध्यङ्गयं तदादायेत्यर्थः । अपराङ्गोदाहरणे 'अयं स रशनोत्कर्षी' इत्यत्रापि वाच्यापेक्षया शृङ्गारस्य न प्राधान्यम् । शोकोत्कर्षकतया शृङ्गाररूपव्यङ्गयापेक्षया वाच्यस्यैव चमत्कारित्वात् । एवं सर्वत्रापराङ्गोदाहरणेह्यम् । अवधारणे एवः । तस्य सांप्रतमक्तस्य । लीनव्यङ्गयेति बहुव्रीहिः । शब्दचित्रे तदभावादाह-वाच्येति। तत्रोत्तमत्वादिप्रसङ्गेत्यर्थः । उदेति । लक्षितद्वितीयकाव्योदाहरणमित्यर्थः । राघवविरहेति । सीतावियोगकृतरामविरहानलज्वालासंतापितसह्यनामकादिशिखरेषु शिशिरतौ सुखं यथा तथा शयाना इत्यादिरर्थः । कोपो वाच्यः । प्रागुक्तं ध्वनितृतीयलक्ष्ये 'तल्पगतापि च' इति पये उक्तम् । व्यङ्गयेनैव रत्याख्यस्थायिनैव । एवोऽन्यव्यवच्छेदे। प्रथ
For Private And Personal Use Only