________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
अत्र दुर्जनसजनयोर्मदशमकर्तृत्वेऽपि न तदुद्देशेन प्रवृत्तिरितिलक्षणगतकर्तृविशेषणेनासंग्रहः । न चास्य व्याघातोदाहरणत्वे को दोष इति वाच्यम् । आश्रयविशेषस्वभावसाचिव्येनैकस्यैव कारणस्य विरुद्धकार्यद्वयजनने बाधकविरहद्दयाहतेरेवाभावादुदाहरणत्वासंगतेः । नहि लोकसिहोऽर्थः काव्यालंकारास्पदं भवितुमर्हति । अपरो व्याघातो यथा--- 'विमुञ्चसि यदि प्रिय प्रियतमेति मां मन्दिरे
तदा सह नयस्व मां प्रणय यन्त्रणायन्त्रितः । अथ प्रकृतिभीरुरित्यखिलभीतिभङ्गलमा
___ न जातु भुजमण्डलादवहितो बहिर्भावय ॥' इदं दण्डको प्रविविखं भगवन्तं दाशरथिं प्रति भगवत्या जानक्या वाक्यम् । उभयविधेऽप्यस्मिन्व्याघाते पूर्वकर्तुरभीष्टव्याहननं तुल्यमिति प्राचां सिद्धान्तः । तथा च तेपामुदाहरणम्
'दशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' इति । अत्र विचार्यते-व्यतिरेक एवात्रालंकारः । जयिनीविरूपाक्षस्य वामलोचना इति तस्यैव प्रकाशनात् । न चात्र व्यतिरेकोत्थापकतयां व्याघातः स्थित इति वाच्यम् । एवमपि तस्यालंकारताया असिद्धेः । न ह्यलंकारोत्थापकेनालंकारेणैव भवितव्यमित्यस्ति नियमः । 'आननेनाकलंकेन जयतीन्दं कलङ्किनम्' इत्यादाविव वस्तुमात्रेणापि व्यतिरेकोत्थापनोपपत्तेः । नास्योक्तप्रकारव्यतिरेकनिर्मुक्तो विषयोऽस्ति येन स्वातन्त्र्यमभ्युपगच्छेम । तस्मादलंकारान्तराविनाभूतालंकारान्तरवदिहाप्यवान्तरोऽस्ति विच्छित्तिविशेषोऽलंकारभेदक इति प्राचामुक्तिरेवात्र शरणम् । . __ यत्तु
'लुब्धो न विसृमत्यर्थ नरो दारियशङ्कया ।
दातापि विसृजत्यर्थ तयैव ननु शङ्कया ॥' इति कुवलयानन्द उदाहृतम्, तन्न । लिकजन्मान्तरीयदारियशङ्कयोरभेदाध्यवसानान्न लक्षणासमन्वय इत्याहु: ।। इति रसग
For Private And Personal Use Only