________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
एवं श्लेपातिशयोक्त्याद्युपायोन्मीलितेन किंचिदंशाभेदाध्यवसानेनामुख एव प्रादुर्भावितो यो विरोधो विच्छित्तिमात्रात्मा क्षणप्रभावदननुवर्तमानस्तन्मूलका विरोधाभासादयो व्याघातान्ता अलंकारा निरूपिताः । ते च नानारूपं वैचित्र्यं भजन्तो विरोधाभासस्यैव प्रभेदाः, न तु ततोऽतिरिताः, काञ्चनस्येव कणादय इत्येके । रूपकदीपकादीनामौपम्यगर्भाणामुपमाभेदत्वापत्तेर्बहु व्याकुली स्यादिति परस्परच्छायामात्रानुसारिणो भित्रविच्छित्तयो भिन्ना एवेत्यपरे ।
इति रसगङ्गाधरे व्याघातप्रकरणम् । अथ शृङ्खलामूला अलंकाराःतत्र,
पतिरूपेण निवद्धानामर्थानां पूर्वपूर्वस्योत्तरोत्तरस्मिन्, उत्तरोत्तरस्य वा पूर्वपूर्वस्मिन्संसृष्टत्वं शृङ्खला ।
तच्च कार्यकारणताविशेषणविशेप्यतादिनानारूपम् । इयं च न स्वतन्त्रोऽलंकारः । वक्ष्यमाणप्रभेदैर्गतार्थत्वात् । नास्यास्तैर्विना विविक्तो विषयोऽस्ति । यथा हि रूपकादिप्वनुप्राणकतया स्थितोऽप्यभेदांशः समानधमाशो वा न पृथगलंकारः एवं प्रकृतेऽपीत्याहुः । तदपरे न क्षमन्ते । सावयवादिभेदै रूपकस्य, पूर्णालुप्तादिभिरुपमायाश्च गतार्थत्वात्स्वतन्त्रालंकारता न स्यात् । नहि विशेपनिर्मुक्तं सामान्यमस्ति येन विविक्तो विपयः स्यात् । तस्माच्छृङ्खलाया एव कारणमालादयो भेदा इति । मतयोरनयोस्तत्त्वमुपरिष्टाद्विवेचयिष्यामः ।
मैव शृङ्खला आनुगुण्यस्य कार्यकारणभावरूपत्वे कारणमाला । तत्र पूर्व पूर्व कारणं परं परं कार्यमित्येका । पूर्व पूर्व कार्य परं परं कारणमित्यपरा । यथाक्रमेण यथा---
'लभ्येत पुण्यैगृहिणी मनोज्ञा तया सुपुत्राः परितः पवित्राः ।
स्फीतं यशस्तैः समुदेति नूनं तेनास्य नित्यः खलु नाकलोकः ॥' गाधरमर्मप्रकाशे व्याघातप्रकरणम् ॥
For Private And Personal Use Only