________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
'प्रथमं श्रितकञ्जकोरकाभावथ शोभामनुभूय कन्दुकानाम् ।
अधुना श्रयितुं कुचौ यतेते दयिते ते करिशावकुम्भलीलाम् ॥' अत्रापि कुचत्वेनैकीळते कुचरूपेऽधिकरणे परिमाणविशेषाणाम् । यदि च कुचयोः पूर्वपूर्वस्वरूपापेक्षया उत्तरोत्तरस्वरूपस्योत्कर्षः प्रतीयते तदा एकविषयः सारोऽप्यस्तु, विषयभेदाच्च न बाध्यबाधकभावः । यत्तु--
'बिम्बोष्ठ एव रागस्ते तन्वि पूर्वमदृश्यत ।
अधुना मृगशावाक्षि हृदयेऽप्येष दृश्यते ॥' इति कुवलयानन्दकृता विकासपर्यायो निजगदे तच्चिन्त्यम् । एकसंबन्धनाशोत्तरमपरसंबन्धे सत्येव पर्यायपदस्य लोके प्रयोगात् । 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः' इति काव्यप्रकाशोदाहृते, 'प्रागर्णवस्य हृदये-' इत्यादिसर्वस्वकारोदाहृते च तथैव दृष्टत्वाच्च अस्मिन्नलंकारलक्षणेऽपि क्रमपदेन तादृशविवक्षाया औचित्यात् । तस्मादत्रैकविषयः सारालंकार उचितः । यं रत्नाकरादयो वर्धमानकालंकारमामनन्ति । स चायुप्मता नोङ्कित एव । इदं तु बोध्यम्---
'प्रथमं चुम्बितचरणा जवाजानूरुनाभिहृदयानि ।
आश्लिप्य भावना मे खेलतु विष्णोर्मुखान्नशोभायाम् ॥' अत्र न तावत्पर्यायः । उत्तरोत्तरसंबन्धस्य पूर्वपूर्वत्यागपूर्वकत्वाविवक्षणात् । यतोऽत्र मुखविषयकभावनायाः सर्वाङ्गविषयकत्वं वक्तुरभिप्रेतम्, न तु मुखमात्रविषयकत्वम् । अत एव खेलत्वित्युक्तम्, न तु मजत्विति । तथा
'पूर्व नयनयोलमा ततो मग्ना मनस्यभूत् । अथ सैव प्रियस्यासीत्सर्ववेदनगोचरा ॥'
प्राग्वदाह -अथेति । वस्तुती द्वित्वादाह-कुचत्वेनेति । विशेषणानामुक्तरीत्या ऋमिकत्वमिति शेषः । सारालंकार उचित इति । अत्रेदं चिन्त्यम् --भेदप्रतीतो सत्यामेव सार इत्यस्य प्राचीनसंमतत्वेन तदभावात् । अत्र हि रागयोः श्लेषेणाभेदाध्यवसायात् । वर्धमानकरूपालंकारान्तरस्वीकारापेक्षया पर्यायपदार्थस्य साधारण्यमाधित्यानेन संग्रहस्यैवोचितत्वाच्च । अत एव प्रकाशकृतापीदं पद्यं पर्याय उदाहृतम् । इत्य
For Private And Personal Use Only