SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ४५२ काव्यमाला | 'युक्तं सभायां खलु मर्कटानां शाखास्तरूणां मृदुलासनानि । सुभाषितं चीत्कृतिरातिथेयी दन्तैर्नखायैश्च विपाटनानि ॥' अत्राप्रस्तुतगतत्वेन स्थिता निन्दा तदाक्षिप्ते प्रस्तुते पर्यवस्यति । एवं यथा विषमालंकारस्त्रिभेदस्तथा तद्विपरीतभेदत्रययुक्तः समालंकारोऽपि प्रपञ्चितः । यत्तु — 'विरूपकार्यानर्थयोरुत्पत्तिर्विरूपसंघटना च विषमम्' इति विषमालंकारं लक्षितवता, ' तद्विपर्ययः समम्' इति समालंकारं लक्षयित्वा, ' तत्पदेनात्र विषमालंकारसंबन्धी विरूपसंघटनारूपश्वरम एवं भेदो गृह्यते । तद्विपर्ययस्यैव चारुत्वात् । न त्वाद्यभेदद्वयम् । तद्विपर्ययस्य कारणादनुरूपकार्योत्पत्तिरूपस्य, वाञ्छितार्थप्राप्तिरूपस्य च वस्तुसिद्धतया चारुताविरहात् । एवं चानुरूपसंघटतात्मक एवं समालंकारः । न तु विपमालंकार इव भेदत्रयात्मकः' इत्यलंकारसर्वस्वकृतोक्तम् । विवेचितं च विमर्शिनीकृता -- ' कारणादनुरूपकार्योत्पत्तिर्हि लोकप्रसिद्धा । नहि तस्या उपनिबन्धश्चारुतामावहति' इति । तदुभयमसत् । वस्तुतोऽननुरूपयोरपि कार्यकारणयोः श्लेषादिना धर्मैक्यसंपादनद्वारानुरूपतावर्णने, वस्तुतोऽनिष्टस्यापि तेनैवोपायेनेष्टैक्यसंपत्ताविष्टप्राप्तिवर्णने च चारुताया अनुपदमेव दर्शितत्वात् । तस्मात्सममपि त्रिविधमेव । इति रसगङ्गाधरे समालंकारप्रकरणम् । Acharya Shri Kailassagarsuri Gyanmandir अथ विचित्रालंकारः -- इष्टसिद्ध्यर्थमिष्टेपणा क्रियमाणमिष्टविपरीताचरणं विचित्रम् | विपरीतत्वं च प्रतिकूलत्वम् । यथा 'बन्धोन्मुक्त्यै खलु मखमुखान्कुर्वते कर्मपाशा नन्तः शान्त्यै मुनिशतमतानल्पचिन्तां वहन्ति । तीर्थे मज्जन्त्यशुभजलधेः पारमारोदुकामाः सर्व प्रामादिकमिह भवभ्रान्तिभाजां नराणाम् ॥' अत्र प्रथमचरणगतं विचित्रं रूपकानुप्राणितम् । यज्ञादिकर्मकरणस्य यज्ञादीनां पाशत्वासिद्ध बन्धमुक्तिविपरीतत्वासंगतेः । द्वितीयचरणगतं For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy