________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
काव्यमाला।
अनुभावास्त्वमी तूष्णींभावविस्मरणादयः ।
सा पूर्व परतो वा स्यान्मोहादिति विदां मतम् ॥' उदाहरणम्'यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् । तदवधि शिथिलीकतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥'
प्रियविरहोऽत्र विभावः । करणैश्चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्र. मितिषु प्रणयस्य शिथिलीकरणमनुभावः । मोहे चक्षुरादिभिश्चाक्षुषादेरजननम्, इह तु प्रकारविशेषवैशिष्टयेन बाहुल्येनाजननमिति तस्मादस्य विशेषः । अत एवोदाहरणे शिथिलीकत इत्युक्तम्, न तु त्यक्त इति ।
अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखतालस्यम्।
अत्र च नासामर्थ्यम् । नापि कार्याकार्यविवेकशून्यत्वम् । तेन कार्याकरणरूपस्यानुभावस्य तुल्यत्वेऽपि ग्लानेजंडतायाश्चास्य भेदः ।
उदाहरणम्'निखिलां रजनी प्रियेण दूरादुपयातेन विबोधिता कथाभिः । अधिकं नहि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ॥' एषा हि प्रियागमनद्वितीयदिवसे मुहुर्निशावृत्तान्तं प्रच्छन्ती सखी प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिदुक्तिः । अत्र रजनिजागरणं विभावः । अधिकसंभाषणाभावोऽनुभावः । जडतायां मोहात्पूर्ववर्तित्वमुत्तरवर्तित्वं वा नियतम्, न त्वत्रेत्यपरो विशेषः । गोपनीयविषयत्वाद्यदि कथाभिरित्यविवक्षितवाच्यं तदा श्रमोऽस्तु परिपोषकः । श्रमजन्ये रोगश्चेत्यर्थः । वाशब्दः समुच्चये । विदामर्थांद्रसज्ञानां मतमिष्टम् । दूरतो दूरे । करणैरिन्द्रियैः । प्रणयः स्नेहः । अन्यासामसंभवादाह-तत्तत्प्रेति । चाक्षुषादिरूपास्वित्यर्थः । चाक्षषादेरिति । सामान्येनेति भावः । प्रकारेति । तत्तत्प्रकारेणेत्यर्थः । अत एव बाहुल्येन । अत एव सर्वथात्यागादेव । अस्यालस्यस्य । तुल्यत्वेऽपि ग्लान्या. दाविति शेषः । यथासंख्यमन्वयः । पारयामि शनोमि । आयसी लोहमयी । रसज्ञा जिह्वा । प्रियेति । प्रियस्यागमनं यस्मिन्दिने ततो द्वितीयेत्यर्थः। जडतातो भेदान्तरमाह---जडेति । वाशब्दश्चार्थे । अत्रालस्ये । कथाभिरित्यविवक्षितेति । कथाभिरिति सुरतपरं तत्त्वमेव लक्ष्यतावच्छेदकम् । अतिश्रमयुक्तत्वं व्यङ्ग्यम् । श्रम इत्यस्य
For Private And Personal Use Only