________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४०७
प्रस्तुतप्रशंसात्वापत्तिरिति वाच्यम् । अत एव तत्र सादृश्याद्यन्यतमप्र. कारेणेति विशेषणमुपात्तमिति विभावनीयम् । __ एतेन 'द्वयोः प्रस्तुतत्वे प्रस्तुताङ्कुरनामान्योऽलंकारः' इति कुवलयानन्दाद्युक्तमुपेक्षणीयम् । किंचिद्वैलक्षण्यमात्रेणैवालंकारान्तरताकल्पने वाग्भङ्गीनामानन्त्यादलंकारानन्त्यप्रसङ्ग इत्यसकदावेदितत्वात् । इदं तु बोध्यम्-अत्यन्ताप्रस्तुतस्य वाच्यतायां तस्मिन्नपर्यवसितया अभिधया प्रतीयमानार्थस्य बलादाकृष्टत्वेन ध्वनित्वं न निर्बाधम् । द्वयोः प्रस्तुतत्वे तु ध्वनित्वं निर्विवादमेव । एवं सादृश्यमूलप्रकारे द्वैतम् । कार्यकारणभावसामान्यविशेषभावमूलास्तु चत्वारः प्रकारा गुणीभूतव्यङ्गय. स्यैव भेदाः । अभिधादिस्पर्शलेशशून्यस्य केवलागूरणमात्रस्य ध्वनित्वप्रयोजकत्वात् । अथ
'आपेदिरेऽम्बरपथं परितः पतङ्गा
भृङ्गा रसालमुकुलानि समाश्रयन्त । संकोचमञ्चति सरस्त्वयि दीनदीनो
मीनो नु हन्त कतमां गतिमभ्युपैतु ॥' अत्र क्षीणराजादि तदेकावलम्बपुरुषादिवृत्तान्ते प्रस्तुतेऽप्रस्तुतप्रशंसैवेति निर्विवादम् । यदा तु सरोवृत्तान्तो राजवृत्तान्तश्चेत्युभयं प्रस्तुतं तदापि प्रागुक्तदिशा सैव । यदा तु सरोरत्तान्त एव प्रस्तुतस्तदा गुणीभ्रमरः । मात्र कात्स्न्थें । अत एवेत्यस्य यत इत्यादिः । उपेक्षणीयमिति । अत्रेदं चिन्त्यम् --अप्रस्तुतशब्देन मुख्यतात्पर्यविषयीभतार्थातिरिक्तो गृह्यते इत्यत्र मुख्यत्वं नाम यदि प्रस्तुतत्वं तदा तदुभयोरपि तुल्यमर्थोद्देश्यत्वम् । एवमपि प्राचामप्रस्तुतेनेति पदवयापत्तिः । एतावता विशेषणालंकारान्तरत्वानङ्गीकारे साधारणविशेषणमहिम्नाप्रस्तुतस्य स्फूर्त्या समासोक्तिः । असाधारणविशेषणमहिना तत्स्फर्तो व्यङ्गयरूपकमिति त्वदुक्तविषयविभागस्याप्युच्छेदापत्तिः । दीपकगुम्फयोदृष्टान्तप्रतिवस्तूपमयोश्च भेदानापत्तिश्चेति । प्रस्तुतत्वे तु ध्वनित्वमिति । इदमपि चिन्त्यम् ---'मलिनेऽपि रागपूर्णा' इत्यादौ प्रतीयमानार्थारोपमन्तरेण भ्रमरसंबोधनस्य तस्य तदत्तिश्यामत्वादी दोषादेर्वाच्यस्यानुपपद्यमानतया व्यङ्गधेनैव तदुपपत्तेश्च गुणीभूतव्यङ्ग्यताया एवौचित्यात् । प्रस्तुताङ्कुरलक्षणं तु मुख्यतात्पर्यविषयीभूतप्रस्तुताङ्करस्यातादृशेन प्रस्तुतत्वं प्रापितेन ध्वननमिति बोध्यम् । अथेति शङ्कायाम् । इयमप्रस्तुतप्रशंसा । जीवातोस्तस्यास्तादृशा.
For Private And Personal Use Only